________________
अनुसन्धान-७८
निशापति पूर्णतमं सुभासं, जानीमहे कीर्त्तिकुमारिकायाः । शॉमिकां (रम्योर्मिकां) रूप्यमयीं मनोज्ञां, मुक्तां तया म्रक्षणकस्य काले ॥११॥
[उपजाति] भयं परेभ्य(:) प्रतिपद्यते जनः, क्वापि स्वतो नेति किल प्रतीतिः । चित्रं तवोदग्रतरप्रतापो(पात्)-तत्सेव(त्रस्तेव) कीर्तिर्भजते दिगन्तान् ॥१२॥
[उपजाति] तवाऽनुभावः सुधियामगम्यः, शङ्के प्रतापस्तपनातिशायी । म(मृ?)गेन्दुतापोपधिना जगत्त्रयी- दिग्-दिग्गतश्लोकवतो न कीर्तिः ॥१३।।
[उपजाति] एकाकिनी यज्जगती भ्रमन्ती, यत्कीर्त्तिकन्या दधते न भीतिम् । तच्चित्रमस्मिन् हृदये ममाऽऽस्ते, किं भीरवो वाह्वयन्तो(?) हि रामाः ॥१४॥ अद्याऽपि यावल्लभते न कान्तं, यदुद्भवा कीर्त्तिकुमारिका यत् । रूपं तदस्या न हि चारु मन्ये, किं वा न सन्त्यर्हतमा गुणौघाः ? ॥१५॥ रूपं सरूपं च गुणाः सुरम्याः(म्या) जाने तु कश्चित् परिणेतुमर्हः । . अस्या न तस्मान् न वृणोति नून-मेषा धवं प्रोद्भटयौवनाऽपि ॥१६॥ युग्मम् ।।
[इन्द्र०] परमसुखदं भव्यालीनां कृताघविमर्दनं,
सुर-नर-वरंश्रेणीनूतं सदोज्ज्वलतान्वितम् । जलधरनिभं श्रेयःसम्पल्लतौघविवर्द्धने,
स्तुतिपथमहं श्रीगौर्वीयं नव्या(या)मि यशोभरम् ॥१७॥ [हरिणी]
॥ श्रीदीप्तिसागरसूरिगुरुराजवर्णनम् ॥ सर्वर्द्धिवर्द्धिफलवर्द्धिपुरप्रसिद्धं, सम्यग् विनम्य निजभक्तिभरण पार्श्वम् । श्रीपाठकप्रवरपङ्क्तिप्रयोजभास्वत(च्)-श्रीदीप्तिसागरगणीन्द्रगुणान् स्तवीमि ॥१॥ त्वदी[य]सत्कीर्त्ति-यश:-प्रतापै-स्त्रिलोकनिःसञ्चरसन्निविष्टैः । निर्जिग्यिरे स्फाटिक-पौष्पदता(न्ता)-दयः पदार्थाः सकला अपि स्फुटम् ॥२॥