SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ ओक्टोबर - २०१९ ॥ श्रीदीप्तिसागरसूरियशःस्तवः ॥ सर्वर्द्धिवर्द्धिफलवर्द्धिपुरस्थपाक्, नत्वा नमद्भविकवाञ्छितसौख्यकारम् । श्रीदीप्तिसागरगणीन्द्रयशःसमूह, स्तोष्ये प्रहृष्टहृदयः सुदयः स्वभक्त्या ॥१॥ _ [वसन्त०] आखण्डलं स्माऽऽह शची कदाचिद्, याहि प्रभो ! मानुषविष्टपं द्रुतम् । तत्र व्रजित्वा कुरु मन्मनीषितं, त्यक्त्वाऽन्यकार्याणि हृदि स्थितानि ॥२॥ [उपजाति] सौभाग्यभाग्यादिगुणैर्मुनीश-श्चकास्ति यस्तद्भवकीर्तिमुक्ताहारं गुणैरेव ततः समुत्थैः, प्रोतं समानीय विधेहि ढौकितम् ॥३॥ [उपजाति] गुणा अनन्ताः किल तस्य साधोः, छिद्रं विना चारु विभाति कीर्त्तिः ।। ततः समर्थो न भवामि कर्तुं, कार्यं त्वदीयं हरिरित्यवादीत् ॥४॥ [उपजाति] क्रीडां करोति ननु यस्य यशो नवीनं, सन्मानसे सकलहंसगणच्छलेन । निःशेषदिग्गमनमाशु विधातुं(तु)कामं, कर्पूरपूरसितभं स्फुरति प्रकामम् ॥५॥ [वसन्त०] विलोक्य लोकप्रिय ! तावकीनं, यशः सितच्छत्रवपु(दु)ज्ज्वलं कलम् । धत्तेऽतिकाष्ण्यं भगणाधिराजः, स्वाङ्कस्थितैणस्य मिषाद् विजाने ॥६॥ [उपजाति] यस्तावकं शमिजनेश ! यशःसमूह, स्तोतुं मनागपि मना(सना) यतते मनुष्यः । जाग्रत्तरं लभति सोऽत्र तमेव विश्वे, कार्यं हि कारणमनुष्ठितमेव भाति ॥७॥ [वसन्त०] त्वत्तः समुद्भवयशः शरदभ्रतुल्यं, विभ्राजते सकलशुभ्रपदार्थदम्भात । जाने प्रतापनिवहश्च सुवर्णमुख्य-वस्तुच्छलेन शमिनामधिप ! त्वदीयः ॥८॥ [वसन्त०] व्योमाङ्गणं तारकितं विलोक्य, वितर्कयन्तीति बुधाः प्रकामम् । एता न ताराः किमु मण्डनानि, यत्कीर्त्तिकन्याविहितानि बाल्ये ॥९॥ [उपजाति] वदन्ति यच्चन्द्रमसि स्फुरन्तं, कलङ्कमन्ये शितितां निरीक्ष्य । बुधास्तु तन्नैव किमस्ति रोपं, निवेदयामः शृणुताऽऽशु यूयम् ॥१०॥ [उपेन्द्र०]
SR No.520580
Book TitleAnusandhan 2019 10 SrNo 78
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2019
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy