________________
ओक्टोबर - २०१९
सद्भक्तितः प्रणिपतामि मुनीन्द्रचन्द्रं, भव्यौघकैरवविबोध[न]चारुचन्द्रम् । दुष्पारसंसृतिदवानलदाहचन्द्रं, स्वश्वासगन्धपरिभूतसमूढचन्द्रम् ॥३॥ भव्यप्रतानमनईहितसौख्यकारं, मिथ्यात्वनैशिकतमस्तपनप्रकारम् । निःशेषविश्वजनताविहितोपकारं, श्रीमद्गुरुं श्रय सदा भुवि निर्विकारम् ॥४॥ दुर्वादिवत्रकजचन्द्र ! मुनिप्रतानः कोटीरहीर ! गिरिधीर ! मदावधीर ! । दुष्पापतापशिखरिप्रकरे समीर !, जीयाः शम(मा)ग्यसहकारविलासकीर ! ॥५॥ वाणीस्वद्(?)वचोभरविबोधितनागराणां, गम्भीरतापरिजिताखिलसागराणाम् ।
चेतश्चमत्कृतिविधायिगुणाकराणां, दुर्वादिवक्त्रकजमीलनभास्कराणाम् ॥६॥ निःशेषविस्मयविधायककीर्तिराजी राजीविनी भज मनोजजगत्तटाकैः । सौक्ति(प्र)युक्ति दिननायकदीप्रदीप्ति-प्रीतासुमन्निचयचञ्चुरचक्रवाकैः ॥७॥ कर्पूरपूरविशदप्रभू(भु)कीर्त्तिदीप्ति-विस्फूर्तिमूर्तिविनिरुद्धसमग्रनाकैः । प्रोन्मादिवादिनिकरोद्धरव(वा)रणेन्द्रा-हङ्कारधिक्कृतिविधानमृगात्र पाकैः ॥८॥ त्रैलोक्यमूर्द्धपरिधूननसावधान-श्चातुर्यवर्यजनरञ्जकचारुवाकैः (?) । ज्ञानप्रतानहरिदश्वमरीचिचक्र-प्रध्वस्तशस्तभुवनस्थलसत्रभाकैः ॥९॥ [वसन्त०] विश्वातिशायि-नयनप्रमदप्रधा(दा)यि-देहधुता जिन(त)लसत्कनकप्रभाकैः । विश्वम्भरावलयवल्लभमौलिमौलि-माणिक्यसुंदलिवरतर (सुंदरवर)द्युतिधौतमादैः
॥१०॥