________________
जून - २०१९
येषां वै प्रवलदशुक्रतारकान्तनेत्रे द्वे दधत इह प्रभूतशोभाम् । भ्राम्यत्कभ्रमरसुकेतकद्वयस्य अत्यर्थं सुजनमनः प्रहर्षिणीष्टे ॥१७॥ प्रहर्षिणीछन्दः । प्रवररससमेता प्रोल्लसद्वर्णवा , बहुतरसुमनोभिर्निर्भरं स्तूयमाना । विलसति खलु येषां वाक्सनत्सूत्रसंगा वरतरगुणमालामालिनी मालिकेव ॥१८॥ मालिनीछन्दः । सद्यो हृद्यानवद्यप्रबहुलविलसद्गद्यपद्यादिविद्या सामस्त्यध्वस्तगर्वा कृतजितबहुलोन्नादिवादिव्रजानाम् । येषां येषां हि तेषां पदकमलयुगं वन्द्यतेऽहर्निशं वा क्षामक्षेमक्षमाभृत्ततिभिरथ लसन्मौक्तिकस्रग्धराभिः ॥१९॥ स्रग्धरावृत्तम् । सिद्धान्तसिद्धान्तविचारसारान् कूपारसंप्राप्तसमस्तपारान् । उद्यबहूद्दाममदाद्रिवृन्द-भेदेन्द्रवज्रामितसत्प्रभावान् ॥२०॥ इन्द्रवज्रावृत्तम् । अथातिमात्रं चरणोज्झितांश्च सदा स्फुरत्कोकनदाहियुग्मान् । कोपक्रमान्वीतसुमानसानपि(सांश्च) समस्तविध्वस्तकुकोपजातीन् ॥२१॥
उपजातिवृत्तम् । प्रवरपञ्चमहाव्रतधारकान् सकलमानवमानवपूजितान् । विहगराजिविराजिविराजितान् द्रुतविलम्बितसद्गतिसुन्दरान् ।।२२।।
द्रुतविलम्बितवृत्तम् । सद्गच्छमानससरोवरराजहंसान् अज्ञानतानतिमिरैकविघातहंसान् ।। कार्यघ्नविघ्नबलवत्तरदन्तिहिंसासिंहोद्धतान् परिसरक्षितिसत्प्रशंसान् ॥२३॥ सिंहोद्धताछन्दः । षट्त्रिंशद्गुणभूरिसम्भृतयशःशुक्लीकृताशामुखान् सिद्धिव्योमनिशाकरप्रमितिभृच्छ्रीभिः सदा संयुतान् । श्रीमत्पूज्यविवेकचन्द्रमुनिभृन्मुख्यानमानोपमान् तान् सन्देहमृगौघघातनविधौ शार्दूलविक्रीडितान् ॥२४||
शार्दूलविक्रीडितवृत्तम् ।