SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-७७ क्रीणन्ति क्रयिणः क्रयाय किरणवातावृतान् सुन्दरान् । । सर्वोत्कृष्टतरान् मयूखनिकरध्वस्तान्धकारव्रजान् । रत्नांश्चारुविचित्रचित्रनिचयैश्चारूणि वस्त्राणि च यत्रानल्पसुकल्पतल्पकलितः शृङ्गाटकः शोभते ॥८॥ अतिलसत्कनकाभरणस्फुरन्मणिगणद्युतिदीपितदिग्गणाः । गुणगणप्रथिताः पृथुपौरुषा अपरुषाः पुरुषा प्य(अ)रुषान्विताः ॥९॥ विमलकमलनेत्रं प्रस्फुरच्चन्द्रवक्त्रं मृदुतरतलहस्तं रूपसम्पत्प्रशस्तम् । कलितललितगात्रं स्फीतिमत्प्रीतिपात्रं अविरतमभिरामं स्त्रीकुलं यत्र कामम् ॥१०॥ तदुपकण्ठमहीकमलाकरा गतसनत्कमलाः कमलाकराः । ददति यत्र मुदं कमलाकराः विमलचारुलसत्कमलाकराः ॥११॥ सदकदम्बकदम्बकदम्बकं मतिविशालविशालविशालकम् । विमलपुष्करपुष्करपुष्करं भवति यत्र च काननकाननम् ॥१२॥ कलहंसकृतारावा वाप्यः पीनपयोधराः । विटपीताः सदा भान्ति यत्र वारांगना इव ॥१३॥ [श्लेषालङ्कारः] ये तं जगति विख्यात-मुत्तममुत्तमप्रदम् । प्रकामं वीरमग्रामं सुप्रतिष्ठमधिष्ठिताः ॥१४॥ अथ श्रीपूज्यानां प्रशस्तिः - पवित्रं यद्गात्रं रुचिररुचिपात्रं प्रकृतितः कलाभिः संयुक्तं विमलधवलांशुकवृतम्(?) । बभौ रत्नश्रेणीयुतकनकसिंहासनवरे, यथा चान्द्रं बिम्बं प्रवरमुदयाख्ये शिखरिणी ॥१५।। शिखरिणीवृत्तमेतत् । रजतपरिसरद्रोचिःस्तोमप्रकाशितदिङ्मुखे, नयनसुखदे दृष्टे दोषाभिराजियदानने । क इह मनुजः सम्पूर्णि_(म्नि?)न कौमुदवर्द्धिणि प्रदधति भृशं प्रीतिं स्फीतां मनोहरिणीप्सिते ॥१६॥ हरिणीवृत्तम् ॥
SR No.520579
Book TitleAnusandhan 2019 07 SrNo 77
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2019
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy