SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ जून - २०१९ इन्द्रद्वैवेन्द्रचन्द्रप्रकरहिमभरक्षीरधिक्षीरहीरडिण्डीरक्षीरनीरप्रभवशुचिलसत्कान्तिशुक्लीकृताशः । नित्यानन्तैकवासो जगति परिसरद्ध्वान्तविध्वंसदक्षः, श्रीमन्नर्हन्मृगाङ्क प्रथितपृथुयशः कौमुदं वर्द्धय त्वम् ॥२॥ [श्लेषालङ्कारः] स्रग्धराछन्दः । वीरं हेमाद्रिधीरं नमदमरभरं यादवश्रेणिवयं सामोदं मेदिनीनं विहितविहितकृद्विश्वविश्वप्रकाशम् । शश्वत्कृष्णश्ववंती द्विपपतिविलसत्सत्प्रभावैजयन्तीरुद्यद्दीप्तीर्दधानं प्रवरजिनपति नीरजाङ्कं नमामः ॥३॥ प्रसिद्धनाममालानामगर्भितम् । वो वण्यै(ण्य)कवर्यो विमलकमलभद्वर्णवर्णैकवर्ण्यः निहिँसो हंसहंसो दुरिततमतमोहंसहंसैकहंसः । श्रीपार्श्वः पार्श्वपार्श्वः कुमदविटपभृत्पार्श्वपार्श्वः सुपार्यो राज्याद्राजाधिराजः शठकमठहठाभ्राजिराजैकराजः ॥४॥ [वर्णालङ्कारः] सिद्धार्थोऽद्धार्थवेत्ता प्रवरनृपतिसिद्धार्थसिद्धार्थपुत्रः तीर्थाधीशः सुधीशप्रणतपदयुगः साधुतीर्थोपदेष्टा । प्रोद्यत्प्रोद्दामधामधुमणिपरिसरत्स्वर्णवर्णप्रवर्णं श्रीमच्छ्रीवर्धमानो भवतु भवभिदे श्रेयसे वर्धमानः ॥५॥ [वर्णालंकारः] स्रग्धरावृत्तम् । अथाग्रतो नगरप्रवरवर्णनं प्रारभ्यते - यस्मिन् संलिह्यतेऽहर्निशममि(म)लरुचामभ्रमभ्रंकषाभिर्येषां सत्केतनानां ततिभिरथ चलद्वस्त्रजिह्वाछलेन । गंगारंगत्तरंगस्फुरदमलचलत्काशसंकाशभासः प्रासादास्ते विभान्ति प्रचुररणरणद्घण्टिकान्तःप्रदेशाः ॥६॥ अखर्वगर्वहर्वैश्च दुर्दान्तोद्दान्तदन्तिभिः । रथैः पादातिकैर्यत्र, प्राज्यं राज्यं विराजते ॥७॥
SR No.520579
Book TitleAnusandhan 2019 07 SrNo 77
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2019
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy