________________
जून - २०१९
नवरसपूरसुधासन्धान-प्रसरन्नवतत्त्वीविज्ञान-व्यतिकरनूत्नप्रतानः, सुकृतविटपरचनाद्यसमानः कोविदमधुकररचितोद्गानः कृतसुमनःसम्मानः । दारियोद्धरणाद्यवदान-प्रस्तुतचित्रपवित्रविधानः स्थितिमुच्चैर्लभमानः, चारित्रामोदं विदधानः स जयति सिद्धिफलं चिन्वानः श्रीप्रवचनसन्तानः ॥३॥ कोमलतनुभासा विकचानि च्छलयन्ती श्यामलकमलानि प्रथितारिष्टज्यानिः, धरणीधरदयिता सकलानि व्यथयन्ती प्रतिपक्षकुलानि क्षपितागाधम्लानिः । श्रीशकेश्वरपार्श्वपदानि ध्यायन्ती विदलितपापानि प्रेमविजयसुखदानि, पद्मावत्यभिधा विपुलानि प्रदिशतु सा देवी सुखखानिः कान्तिविजयकुशलानि ॥४॥
इति शकेश्वरपार्श्वनाथस्तुतिः समाप्तेति ॥
सोपसर्गोऽन्यार्थवृत्ति-रन्तर्भूतक्रियान्तरः । णिगर्थोऽन्तर्णिगर्थो वा, पञ्चोपायैः सकर्मकः ॥१॥ फल-व्यापारयोरेक-निष्ठतायामकर्मकः ।
धातुस्तयोद्धर्मिभेदे, सकर्मक उदाहृतः ॥२॥
'देवदत्तः पचती'त्यत्रौदनविक्लित्यादिकं फलं फूत्कृत्यग्निसमिच्चालनादिना व्यापारेणैकनिष्ठं विवक्ष्यते इत्यकर्मता ।
विवक्षातः कारकविभक्तयो नाना भवन्तीति शाब्दिकाः । अत एव 'आत्मानमात्मना वेत्ती'त्यादौ तृतीया ।
____ साध्यतावच्छेदकसम्बन्धेन यादृशप्रतियोगितावच्छेदकावच्छिन्नप्रतियोग्यनधिकरणभूतं यत्प्रतियोगिताश्रयं सद् हेतुतावच्छेदकसम्बन्धेन हेतुत्वावच्छेदकावच्छिन्नहेत्वधिकरणवृत्त्यभावप्रतियोगितावच्छेदकतानवच्छेदकसाध्यसामानधिकरण्यं हेतोर्व्याप्तिः ॥