________________
जून - २०१९
मनोभवभवपाशनं मेऽनन्तशोऽजनि जिनपते ! तदभावकरणे देव ! शरणे समेतोऽहं शुभमते ! । अथ यथोचितकरणचतुरे नाथ ! किं कथनेन मे ? तथा कुरु न भवन्ति रोषादयो दोषा मयि समे ॥३॥ करुणापर! रे नागरवन्दितपाद! रे
भविराशे रे नाशितसकलविषाद! रे । जिनपुङ्गव! रे विदलितवादिविवाद! रे
निजवचसा रे विफलितवीणानाद! रे ॥ तव नादलीना देवदानवमानवा विकचानना आयान्ति पातुं भावपीना दोषहीना देशनाम् । तथा छागमृगारिवारणवाजिराजिमुखा घना बहुजातिवैरविनाशकरणे समवसरणे ते सना ॥४॥ त्वयि गतवति रेऽमितसुखसंगतशिवपुरे
दीपाले रे दिवसे देव ! शिवङ्करे । संजाते रे भारतनरि विरहातुरे
कथमेवं रे समता गुणमणिसागरे । गुणसागरे जिन ! कथं समता शिवे नाथ ! तथा भवे ? समताधरो जिनराजवीरो भवन्तं इति किमु नुवे ? । अथ विरहवारणकृते सौवं सेवनं दिश यतिपते ! श्रीहीरविजयमुनीशशिशुना नुतो वीरो हितकृते ॥५।।
इति श्रीवीरस्तवनम् ॥
(३) चेतन ! कुरु सीमन्धरशरणं, भवसागरतरणे वरकरणम् । यदि तव भाति भयङ्करमरणं, किं बहु विलपसि मूढ ! सकरुणम्? ॥१॥ चेतन० संप्रति काले यानसमानो, राजति सीमन्धरभगवानो । मनुजभवो नहि पुनरपि सुलभो, निजहितसाधनमिति कुरु भो भोः ! ॥२॥ चेतन० शरणागतमङ्के निजबालं, मामव भवतो भूगतभालम् । त्वमसि विभो ! करुणारससिन्धो !, समजनसुखदोऽकारणबन्धो ! ॥३॥ चेतन०