SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ जून - २०१९ ॥ श्रीसर्वजिनस्तवः ॥ ॥ चतुर्थाऽध्यायस्य प्रथमः पादः ॥ यस्ततान सुकृतान्यशिश्रियत्, पथ्यजीगमदघं जिगीषति । साम्यमार्जिजिषदापिपत् परं, नाप्यसूयियिषति स्तुवे जिनम् ॥१॥ योऽचलाचलमलं ददाति शं, दाश्वदङ्गिमुदमङ्गचक्नसः । ज्ञीप्सुरीप्सितपदं न धीप्सति, ब्रह्म धिप्सति स मित्सतु क्रुधम् ॥२॥ लिप्सते शमुरु यस्तवं तवा-रिप्सतां स नव रेधुरङ्गिनः । त्वां विनेमुरिन ! ये च भेजिरे, ते न जेरुरिह वेमुराश्रवम् ॥३॥ चेरिथ व्रतमयं च तेरिथ, भ्रमिथेह न मदे न रेजिथ । ग्रेथिथाऽमलगुणान्न देभिथ, त्वं भयं शशरिथेश ! देहि शम् ||४|| दिग्यिरेऽङ्गिन इन ! प्रजिघ्यिरे, निर्वृतौ गिरमपीप्यदुत्तमाम् । शं चिकाय भुवनं जिघांसतो-ऽरीन् जिगाय च भवान् जिगीषितान् ।।५।। गुर्वियेष शमघं जहौ मद-द्रूनुवोष भुवि दिद्युते भवान् । तस्थिवानिन ! शिवे चकार गां, जागदत् पथमरीश्च बेभिदत् ॥६॥ सम्पनीपदति सम्पदश्चनी-कस्यतेऽस्य भयमीश ! यः क्रमौ । नंनमीति तव चञ्चरत्तमा, बम्भजीति स च दन्दहीत्यघम् ॥७॥ संवरे स वरिवर्त्यघं चरी-कृत्य ते तप इयर्ति नेनिजन् । यो विवक्षति बिभर्ति ते गिरं, स्वं पिपावयिषते पिपति च ||८|| टि० : १. तं जिनं स्तुवे इति सम्बन्धः । २. दत्ताङ्गिनां मुत् येन एवंविधं शं यो ददाति । ३. अङ्गेन चक्नसो निर्मलः । ४. अन्तर्भूतण्यर्थतया वर्द्धयितुमिच्छुः । ५. 'मींग्श् मींच् वा हिंसायाम्' । ६. प्राप्तुमिच्छति यः । ७. 'हिंट गतिवृद्ध्योः ' । 'योऽनेक०' (२।१।५६) य० । ८. चञ्चुर्यमाणं तमो यस्य स । ९. निर्मलीकुर्वन् । श्लो० : १. सू० ४।१।१, ३, ४, ६, ९ । २. सू० १२-१६, १८, २० । ३. सू० २१, २३-२६ । ४. सू० २४-२७, २९-३१ । ५. सू० ३२-३६ । ६. सू० ३७-४२, ४४-४६ । ७. सू० ५०-५४ ८. सू० ५५-६० ।
SR No.520579
Book TitleAnusandhan 2019 07 SrNo 77
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2019
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy