________________
अनुसन्धान-७७
अदर्शिषातां तव येन पादा-वश्रायिषातां जिन ! घानितोऽघम् । घानिष्यते तेन तमः शमश्च, ग्राहिष्यते कर्म विजायितो च ॥२८॥ त्वामर्चतो धीरिन ! वारिषीष्ट, हारिष्यते कर्म च दर्शितेष्टम् । भीर्या(C)निषीष्ट क्रियते च साम्यं, दिव्यास्यते तस्य शिवं भवेच्च ॥२९॥ त्रुट्येत्तमोऽस्य त्रसति स्मरोऽस्मात्, क्रामत्यघं नो स भवे भ्रमेन्न । खिद्येत यो भ्रास्यत आर्जवात्ते, धर्मे यसन्नीश ! गिरोऽभिलष्येत् ॥३०॥ रज्येन्मते यस्तव सोऽश्नुते शं, तक्ष्णोत्यघं सन्मतिमक्ष्णुयाच्च । स्तभ्नाति लोभं कुधियं धुनाति, हिनस्ति मोहं तुदते मदं च ॥३१॥ पुषाण शं तस्य तनु श्रियं च, व्यभेदि मोहो मृदुगीरदोहि । क्षीयेत दुःखं तव सृज्यते गां, योऽसर्जि तप्येत तपांसि भक्तिम् ॥३२॥ पालं द्रवोऽपक्षत भीररुद्ध, तवान्तिके तीर्थपते!ऽहृतेति । पुष्पोत्करोऽकीट तमोऽन्वतप्ता, स्तोता जनोऽतप्त तपः शमाप ॥३३॥
॥ द्वादशः पादः ॥ इति हैमव्याकरणकतिपयोदाहरणमयः सर्वजिनस्तवो नवमः ॥
टि० : १. तेन अघं घानिष्यते इत्यर्थः । २. श्वस्तनी ता - विजेष्यते इत्यर्थः । ३.
त्वमर्चता पुंसा धीर्वारिषीष्ट । इदं दर्शितेत्यादि । श्लो० : २८. सू० ६९ । २९. सू० ६९-७२ । ३०. सू० ७३ । ३१. सू० ७४,
७९, ८१, ८२ । ३२. सू० ८०, ८३-८५, ८७ । ३३. सू० ८८-९१, ९३ ।