________________
जून - २०१९
जङ्गम्यते नेह स दन्दहीति, लोलुप्यतेऽघं न गृणाति निन्द्यम् । मुच्चेच्य ! शं भावयते च कष्टं, यः साहयेत्ते कथयेद् गुणौघम् ॥१८॥ चिकीर्षतस्तारयसीह भक्तिं, भव्यास्तपःकाम्यत आर्जवीयन् । मणि तृणीयन् भवने वनीयन्, पोतन् भवे नीरनिधीयमाने ॥१९॥ देशनासदसि ते पयायितौ- जायिते रजसि मुद् भृशायते । , लोहितायति मणी महोभरै-रम्बरे पटपटायते ध्वजः ॥२०॥ वैरायते कोऽपि न गौश्च रोम-न्थायते कष्टायत उत्करो न । त्वद्देशनोदूँ न भयाज्जिनेश !, बाष्पायते किन्तु सुखायतेऽङ्गी ॥२१॥ त्वयीश ! सत्यापयता नमस्यां, न शब्दयेद्धस्तयते विरुद्धम् । लोभान्न सम्भाण्डयतेऽणयेच्चा-ऽऽरम्भं सच्चित्तं व्रतयेत्तपस्येत् ॥२२॥ शिवं दयामास भवांश्चकासा-ञ्चकार कायेन धिया समीधे । ईक्षाम्बभूवाऽमृतमतिमोषा-मास स्मरन्तो बिभयाञ्चकार ॥२३॥ त्वज्जियामास बिभाय मोहो, रागोऽपि नोर्जं बिभराम्बभूव । गुरुर्विदामास न ते विवेदो-शना बलं कोऽत्र विदाङ्करोतु ॥२४॥ ये त्वां नरोऽद्राक्षुरिहाऽतृपंस्ते-ऽस्प्राक्षुर्व्यमक्षन् वृषमध्यरुक्षन् । गिरोऽदधंस्तेऽचकमन्त ये च, तेऽशिश्रियन्नेतरऽपूपुजंस्त्वाम् ॥२५॥ सतोऽशिषद्धर्ममवोचदारन्, मुक्तिं रणे योऽसितुमाह्वताऽरीन् । कीर्त्याऽलिपद्विश्वमसिक्त शर्मा-ऽगमन्मुदं सोऽपुषदद्युतच्च ॥२६॥ तमोऽभिदत्तेनं जिनोऽजरन्न, शमऽश्वदिष्टं समपादि तस्य । धर्मस्ततोऽजन्युददीप्यबोधि, जनोऽवधीर्ष्याशिव आसि तेन ॥२७॥
टि० : १. कारणेन । श्लो०: १८. सू० ११-१३, १५, १७-१९ । १९. सू० २०-२४, २६ । २०.
सू० २७-३० । २१. सू० ३१-३५ । २२. सू० ३५-३८, ४०, ४२४४ । २३. सू० ४६-५० । २४. सू० ५०-५२ । २५. सू० ५३-५५, ५८, ५९ । २६. सू० ६०-६४ । २७. सू० ६५-६८ ।