________________
३६
अनुसन्धान-७७
शुश्रूषते नाथ ! दिदृक्षते यः, सुस्मूर्षते त्वां च विवन्दिषेत । शिक्षेत धर्मं स विवेकमीहा-ञ्चक्रे स्मरान्नो बिभयाञ्चकार ॥९॥ तमोऽधिचक्रे शमुपस्कृतोच्च-र्भवान् गुणौघेऽवदतोपदेशे । संप्रावदन्तेश ! चतुर्मुखानि, तव स्मरान्ना समगस्त सिद्ध्या ॥१०॥ संपृच्छते संशृणुते स्म तत्त्वे, तवाङ्किते यः समवित्त सोऽत्र । विष्वक् तवाऽऽयच्छत' भाविते ये, मां नामयस्व स्मरयानिशं त्वम् ।।११।। त्वं वञ्चयेथा जिन ! भीषयेथा, मोहं सदा भापयसे गुणैश्च । विस्मापयेथाः स्मर भापनाऽरी, नायासयेथाः परिमोहयेथाः ॥१२॥ जाने तुदेथा हरसे च राग-मुद्यच्छसे ब्रह्मणि वेत्सि विश्वम् । रुच्या रविं चानुकरोषि दीपं, प्रत्यक्षिपोऽहं परिमृष्यसीह ॥१३॥ शिवं प्रभो ! पर्यवहो व्यरंसीः, प्रमादतश्चोपरमस्यवद्यात् । गव्यांसयश्चेतयसे च भव्या-नबोधयः कारयसे स्म धर्मम् ॥१४॥ अकम्पयः क्रोधमयोधयोऽध्या-पयो भयं प्रावयसीह लोभम् । तमश्च मे द्रावय नाशयाऽघं, शं भोजय त्वं जनयाऽपवर्गम् ॥१५॥
___॥ एकादशः पादः ॥
|| तृतीयाऽध्यायस्य चतुर्थः पादः ॥ यस्त्वां पणायेत्तव गां पनायेद्, गोपायिता क्ष्मा च ऋतीयते तम् । श्रीः कामयेतैष तितिक्षतेऽलं, जुगुप्सते नो विचिकित्सतीह ॥१६|| मीमांसते तत्त्वमिहाऽनसूयन्, दीदांसति त्वां भृशमीक्षते यः ।
वावन्द्यतेऽभीक्ष्णमसौ चकास्ति, नारार्यते दुःखमशाश्यते शम् ॥१७|| टि० : १. प्रससार । श्लो० : ९. सू० ७१-७५, ७७ । १०. सू० ७६-७९, ८४ । ११. सू० ८४,
८६ । १२. सू० ८९-९२, ९४ । १३. सू० ९५, ९८, १०१, १०२, १०४ । १४. सू० १०४-१०७ । १५. सू० १०८ । १६. सू० ३।४।१६ । १७. सू० ७-१० ।