SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ३४ अनुसन्धान-७७ धन्यम्मन्यः समीपे ते, भवाब्धौ द्वीपमाप्यना । धर्मं रुजागदङ्कारं, सत्यङ्कारं शिवाप्तये ॥२६।। दिवामन्या निशा पापं, त्वयि गच्छत्यभूत् सुरैः । अग्निभिन्द्यांशुभिर्लोकं - पृणमध्यन्दिनार्कभ ! ॥२७॥ अन्यदर्थादनानङ्ग-तिमिङ्गिलवधेऽभवः । भद्रकरणं जातं त्वं, मोहरात्रिञ्चरा हतः ॥२८॥ तिर्यञ्चोऽपि सुधासध्यक्, सम्यक् तेऽपुर्वचोऽसमम् । त्वां विष्वव्यग्गुणं वाऽऽप्य, कोऽन्यदीयं मतं श्रयेत् ॥२९॥ नगधीराङ्गिकल्पाग !, पद्मरागनखानघ ! । त्वां कापथहरं प्राप्य, कद्वदो न कदर्यधीः ॥३०॥ न सो कापुरुषोऽकाच्छ-बुद्धिः कोष्णमनाः क्रुधा । कवोष्णगीश्च तेऽवश्य-कार्यदेश(शे)न य: स्मरेत् ॥३१॥ सततं हन्तुकामोऽघं, यस्त्वां श्रीसहितं श्रयेत् । मुक्तिगन्तुमनाः साम्य-समना(:) सन्ततं स ना ॥३२॥ सगुणं सहकारुण्यं, सतां सब्रह्म कारणम् । नत्वा सब्रह्मचारी त्वां, सधर्मा च महात्मनाम् ॥३३॥ वीरं तमोऽर्कसदृशं विनयासदृक्षो-ऽनन्यादृशातिशयशस्तमिति स्तुते यः । द्यौः कीदृगस्य पिहितातिरनीदृशश्रीः, सोऽतादृशं शिवमवाप्य जगद्वतंसः ॥३४॥ इति हैमव्याकरणकतिपयोदाहरणमयः श्रीवीरस्तवोऽष्टमः ॥ छ । श्लो० : २६. सू० १०९, १११, ११२ । २७. सू० १११, ११३ । २८. सू० ११५ ११७, ११९ । २९. सू० १२१-१२४ । ३०. सू० १२७, १२८, १३१, १३४ । ३१. सू० १३५-१३८ । ३२. सू० १३९, १४० । ३३. सू० १४३, १४६, १४९, १५० । ३४. सू० १५१-१५४, १५६ ।
SR No.520579
Book TitleAnusandhan 2019 07 SrNo 77
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2019
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy