________________
जून - २०१९
३
त्वां नत्वा महतीभक्ति-महद्भूतमहं नरः । न महत्तरधीः कुर्यान्, मुष्टामुष्टि शराशरि ॥१६॥ भिनत्त्यष्टागवमनोऽ-ष्टापदः कोटरावणे । यथा तथा स्मरो विश्वा-मित्रादींस्त्वन्मतोज्झितान् ॥१७॥ दन्तावलक्षमशरा-वत्याद्यानी वृतोऽपुना । नीत्तमुन्निष्प्रतीकारो, मर्माविद्धि हरन् विभो ! ॥१८|| निःषोडशकषाय ! त्वत्रिपद्या गौतमादयः । व्यधुरेकादशाङ्गानि, षोढा षड्ढा तपः पराः ॥१९॥ व्यशीतिः प्रभृती: पापा, दोषानष्टादशाक्षिपः । त्रयोदश द्वादश वा-ऽयोगान्त्यसमये जिनाः ॥२०॥ द्वाचत्वारिंशतं नाम-भिदोऽर्हस्त्रिशतं जगौ । तथा त्रिनवतिं जित्वो-पसर्गान् द्विदशान्निशि ॥२१॥ भवत्पदातितां भूरि-हल्लेखो हृद्य ! हार्दधीः । न सत्पद्धतिभागिच्छे-न्नस्तोऽस्ततिलपुष्पकः ॥२२॥ नस्यश्वासवपुर्गन्धो-दपेषं पिष्टदर्पक ! । केशानुत्पाट्य शीर्षण्यान्, प्राव्राजी: पञ्चमुष्टिना ॥२३॥ त्वमुदध्यदविन्द्वाभ (दध्यरविन्दाभ)-गुणो मेरौ जनुः क्षणे । क्षीरोदाद्यम्भ आनीयो-दकुम्भैः स्नपितः सुरैः ॥२४॥ व्युदगाहाश्चले शब्द - पूर्वोत्तरपदे इव । कामाद्यास्त्वगिराऽजान-न्नैहिकामुष्मिके सुखे ॥२५।।
श्लो० : १६. सू० ७०-७२ । १७. सू० ७४-७६, ७९ । १८. सू० ७८, ८२, ८५,
८६, ८८ । १९. सू० ९१ । २०. सू० ९२ । २१. सू० ९२, ९३ । २२. सू० ९४०९६, ९९ । २३. सू० १००, १०२, १०४ । २४. सू० १०४, १०५, १०७ । २५. सू० १०६ ।