________________
जून - २०१९
३१
असाहि सङ्गमोच्छाहि - नकुलस्य व्यथा त्वया । कौशाम्बी भद्रिले स्थायि, मोदकापूपमुज्झता ॥३२॥ त्वयासि मदकर्मोप-वनं सर्वमहोत्सव ! ।.. कीर्त्यास्ते दधिपयसी, राजदन्तास्तमौक्तिक! ॥३३॥ वर्षजातजडारोषा-स्युद्यता आहिताग्नयः । मुधा त्वां जिन ! हित्वेन्दु-मौलिं शूलकरं श्रिताः ॥३४॥ क्षमाप्रियं प्रियश्रेयान्, ना त्वां धर्मार्थदं श्रयेत् । श्रद्धाधीयुक् शिववंग-हेतुं सद्दमसंयमम् ॥३५॥ शीतं त्वयाऽसाहि सहस्य माययोः, स्थितं रवौ पुष्यपुनर्वसू गते । त्वां चेति यो द्वादशमासिकं स्तुते, वीरप्रभो ! द्वित्रभवैः स सिध्यति ॥३६।। इति हैमव्याकरणकतिपयोदाहरणमयः श्रीवीरस्तवः समाप्तः ॥छ।
॥ श्रीवीरस्तवः ॥
॥ तृतीयाऽध्यायस्य द्वितीयः पादः ॥ श्रीवीरं स्तौमि तं शक्ति-क्षमे उच्छिद्य मत्सरम् । परस्पराश्रिते ये श्राक्, द्योतिके इतरेतराम् ॥१॥ यथा प्रीणात्युपाम्भोज, प्राप्तानुपवनादलीन् । मोदस्तेऽनुपदद्वन्द्वं, तथाधिक्षिति देहिनाम् ॥२॥ त्वया विनोपलोकेना- जल्पताग्रेजने पुरा । इच्छां सुमगधं हित्वा, बद्रशोऽध्यटवि स्थितम् ॥३॥ त्वां स्वामीयति रम्याङ्गं, यस्तस्मिन् स्यान्ननु स्मरः । स्त्रियंमन्यो विशेष सो-ऽदर्शय ओजसाकृतम् ॥४॥ श्लो० : ३२. सू० १४१, १४२ । ३३. सू० १४५, १४९ । ३४. सू० १५२
१५५ । ३५. सू० १५७, १५९, १६० । ३६. सू० १६२, १६३ । १. सू० ३।२।१ । २. सू० २ । ३. सू० ३-६ । ४. सू० ७, ९, १२ ।