________________
अनुसन्धान-७७
॥ श्रीवीरस्तवः ॥
॥ तृतीयाऽध्यायस्य प्रथमः पादः ॥ स्तोष्ये सुरासुरैः सेव्यं, परमेशं समासतः । जितमोहं महावीरं, त्रिलोकीहतमन्वहम् ॥१॥ तं साम्यसुस्थितं वीरं, प्रणतोऽभिष्टुवेऽभवत् । विंशतेरुपसर्गाणां, योगो यद्देहधातुभिः ॥२॥ ऊरीकृत्यादरं चित्तं, स्थिरीकृत्यावगत्य ये । सत्कारार्ह नमन्ति त्वां, मामलङ्कुर्युरीशते ॥३॥ त्वगिरं ये मनोहत्य, पुरस्कृत्य मुदं पपुः । ते तिरस्कृत्य रागादीन्, पाणौकुर्वन्ति निर्वृतिम् ॥४|| द्विनवान् ब्रह्मणो भेदा-नदिशोऽदूरषोडशान् । संयमस्याऽर्द्धविंशानि, मोहस्थानान्यहन् प्रभो ! ॥५॥ त्वमासन्नदशा ब्रह्म- गुप्तिरुपदशानिव । तत्त्वान्यवोच इद्धाङ्ग(:), सिंहमध्य स केवलः ॥६॥ दण्डादण्डि न कुर्युस्ते, तर्जनं वा कचाकचि । यान्ति पारेभवं मध्ये, चित्तं ये त्वगिरं दधुः ॥७॥ यावद् भव्यं पर्यभव्यं, तवेशा योजनं गिरा ।
अभ्यशोकं स्थितस्याधि-रत्नसालं सुधर्मधीः ॥८॥ पुष्पन् सब्रह्म साधूना-मुपयुष्मद् यथाविधि । तपः सोत्सर्गमातन्वन्, प्रत्यहं गौतमोऽवसन् ॥९॥ कुतीर्थिनस्त्वया साक्षात्, कृतमर्थं सुनिश्चितम् ।
अत्यदोषं रुषा रक्ता, न भेजुर्दुर्मतिश्रिताः ॥१०॥ श्लो० : २. सू० ३।१।१ । ३. सू० २, ४ । ४. सू० ६, ७, १०, १५ । ५. सू० १९, २० ।
६. सू० २०, २१ । ७. सू० २६, ३० । ८. सू० ३१-३३ । ९. सू० ३९-४१ । १०. सू० ४२-४५।