SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-७७ ॥ श्रीमहावीरस्तवः ॥ ॥ द्वितीयाऽध्यायस्य तृतीयः पादः ॥ वीरं स्तौमि तिरस्कृत-मानं भक्तिपुरस्कृतः । तिरःकृताऽघमुस्कान्तं, नमस्कृत्य पुरस्य तत् ॥१॥ श्रेयस्कारि तपस्काम-महस्पात्रं शिरस्पदम् । तत्त्वां येन पयस्कल्पं, यशस्काम्यन्नरो नमेत् ॥२॥ सुरोचिष्काऽधनुष्काम्य-न्नाथ ! निष्कोप ! दुष्कृत ! । नाविष्कृतचतुष्पुण्यं, द्विष्क(:) त्रिपूजितो दिने ॥३॥ वपुःखवितहेमार्चि-ष्प्राप्तं चतुष्प्रियं प्रभो ! । भ्रातुष्पुत्रं सुपार्श्वस्य, कस्को न त्वां नुनूषति ॥४॥ आयुःष्टोमविदो निष्णो, हवींषीव लिलिक्षति । वाक्यानुत्कः प्रतिष्णात!, प्रतिस्नातेद्धीषु ते ॥५॥ मातुःष्वसृपितृष्वस्रो-भवान्नासिष्ट विष्टरे । गविष्ठिर इवाग्निष्ट-दग्निष्टोमाय पुंस्विन ! ॥६॥ श्रीषेणााभिनिष्ठान -वृत्ताङ्गुष्ठनखस्थितः । गोष्ठे रोहिणिषेणाऽर्यः, कुष्ठले परमेष्ठधीः ॥७॥ अदुःषेधोषितप्रष्ठ !, त्वं सिषेवयिषु तिम् । अभीरुष्ठान ! निष्टप्त- रै सुषन्धिवपुष्टमः ॥८॥ टि० : १. ईषत्परिसमाप्तं पयः - पयस्कल्पम् । ईषत्परिसमाप्ते कल्पप्प्र० । एवंविध यशस्काम्यन् । २. वपुषा खर्विता हेमाचिर्येन । ३. घृतानीव । ४. प्रतिष्णातं निर्मलं यत् प्रतिस्नातं सूत्रं तस्य या इद्धा गिरस्तासु । ५. अग्निहोतृद्विजो हि अग्निसमूहा यान्यकुलेषु न गच्छति । ६. अभिनिष्ठानो वर्णः विसर्गः इत्यर्थः । श्लो० : १. सू० २।३।१-३ । २. सू० ४-७ । ३. सू० ८-१० । ४. सू० ११, १३ १५ । ५. सू० १५, १७, २०, २१ । ६. सू० १६-१९, २३, २५ । ७. २४, २६-२८, ३० । ८. सू० ३१-३७ ।
SR No.520579
Book TitleAnusandhan 2019 07 SrNo 77
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2019
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy