________________
जून - २०१९
लोकस्य रुदतोऽप्यात्त-दीक्षं नृषु च नाकिनाम् । प्रशस्यं त्वां जनः पश्यन्, पक्षात् भवेन्न मासि वा ॥४०॥ पृथक्कोपेन मानाच्च, नाना दम्भेन भो ! भृतः । न त्वं भाग्यादृते पुण्यं, चाप्यसे पापहज्जनैः ॥४१॥ विनाऽऽलस्यं प्रमादेन, मोहाच्च त्वां श्रये तपः । मेरुं पूर्वेण सोत्पद्य, सिद्धयेदिन्दोः समैर्गुणैः ॥४२॥ यो वित्तेन निमित्तेन, हेतोः स्वर्गाच्छिवस्य च । राज्यार्थाय च मुद्यर्थे, त्वां भजेत्तस्य तद् भवेत् ॥४३॥ यो हेतुः सत्यवाग् हेतुं, यं सत्पूज्योऽसि हेतुना । येनाऽदोषो यतो हेतो-आनी तस्य त्वमिष्यसे ॥४४॥ दूरेण ते कर्णं मदश्च दूराद्, दूरे स्मरोऽगात् त्वदघं च दूरम् । प्रापुर्गुणास्तेऽन्तिकमन्तिकेन, क्षमान्तिकात् त्वच्च दयान्तिके श्रीः ॥४५।।
यः फल्गुनीषु गतमर्कमफल्गुवल्ग
धाम्नाऽजयस्तमिह पार्श्व ! नमाम्यहं त्वाम् । स्तुत्वा च वो वयमिति क्रमपङ्कजेषु
सद्भक्तिमेव सततं स्पृहयाम उच्चैः ॥४६।। इति हैमव्याकरणकतिपयोदाहरणमयः श्रीपार्श्वनाथस्तवश्चतुर्थः ।
टि० : १. तस्य हेतोस्त्वमिष्यस इत्यर्थः । श्लो० : ४०. सू० १०८-११० । ४१. सू० ११३ । ४२. सू० ११५-११७ । ४३.
. सू० ११८ । ४४. सू० ११९ । ४५. सू० १२० । ४६. सू० १२२, १२३ ।