SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-७७ द्विपादस्त्वां यथा नेमु-स्तथा वन्द्यं चतुष्पदाम् । त्वं बोधयन्नुदीच्यादीन्, प्राच्यादिप्रसरद् यशाः ॥४०॥ मुनिभिस्त्वां विदुष्मन्तं, विदुष्यं विदुषां चयः । किं हित्वाऽन्यसुरान् सक्तान्, यूनः शून इव श्रयेत् ॥४१॥ मघोनोऽर्च्य मघोन्या च, सन्तोषामृतपा' त्वया । राज्ञो राश्याः समुद्रस्य, शिवायाश्च कृतं सुखम् ॥४२॥ निःसीमनि पदाब्जे स-द्धाम्नी निर्धूतकर्मणी । तव हृद्वाम्नि वार्चनः सङ्घो न्यस्यानिशं स्मरेत् ॥४३।। वन्दे सुपर्वणां सेव्यं, त्वां प्राप्तं शिवधामनि । तमोघ्नन्तं जिनाऽनन्तं, नमज्जन्तौ पितुः समम् ॥४४॥ भान्ती तनुस्ते पुनती तुदन्ती, श्यन्ती हरन्ती च तमोऽशुभाती । नेत्रे च नेमे घुसदो धुचक्रु-महैर्भुवं त्वां स्तुवतोऽप्रिया द्यौः ॥४५॥ इति हैमव्याकरणकतिपयोदाहरणमयः श्रीनेमिस्तवः तृतीयः ॥छा। टि० : १. विदुषि साधुः - विदुष्यस्तम् । २. सन्तोषामृतं पिबतीति सन्तोषामृतपाः, तेन । 'लुगाऽऽतोऽनापः' (२।१।१०७) आलुक् । ३. वृत्रघ्नो देवेन्द्रस्याऽयं - वाघ्नः । ४. भान्ती तनुरस्तीति सम्बन्धः, एवं नेत्रे च । एवं सर्वत्र । श्लो० : ४०. सू० १०२-१०४ । ४१. सू० १०५, १०६ । ४२. सू० १०६-१०८ । ४३. सू० १०९-१११ । ४४. सू० १०९, १११-११४ । ४५. सू० ११५११८ ।
SR No.520579
Book TitleAnusandhan 2019 07 SrNo 77
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2019
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy