________________
१३
जून - २०१९
गते यतोऽप्युंभे ध्याने, द्वे येनाऽसि स्मरोऽसुकः । लोभोऽसुको मुदे सैष, देवः स्याऽसौ च तस्य गीः ॥१५॥ जज्ञेऽस्याऽदौमवन्नाद्रौ, विकल्पोऽमुमुयङ् न कः । अमुना भीहता दोषा, ज्ञा अमुष्यामुकेऽस्मरन् ॥१६॥ ये तेऽ[प्य]ध्यैत सिद्धान्तं, लुवं प्रीतेर्नियं पथि । युयुवुः स्वं दिवीयुस्ते, शिवं नायक ! शिश्रियुः ॥१७॥ राजीमती स्त्रियां वाञ्छन्, त्वां स्तुवन्नश्नुवीत ना । गोस्त्रियः सुभ्रवः स्त्रीश्च, मुक्तिस्त्रीमपि तां क्रमात् ॥१८॥ ये निन्युः सुधियो वस्वः, पत्यस्त्वां चिच्युरार्जवम् । दोषल्वोऽग्राथ एषां स्यु-र्गुणाः प्रतिभुवः श्रियः ॥१९॥ कारभ्वमिव वर्षाभ्व-मिव चार्तं भवेऽत्र माम् । पान्तु वाक्यानि तेऽग्याणि, तमःपूष्णो विपज्जिही ॥२०॥ भग्नरुग् दोषलून्युस्ते, वृक्णात्तेऽघं पिपिक्षतः । मते को मोक्षमारोक्ष्मन्, भवोत्तीर्ण ! न दीव्यति ॥२१॥
टि० : १. आर्त्तरौद्रलक्षणे । २. अदसो मः = अदोमः । अद्रौ अद्रिप्रत्यये यथा
विकल्पभाग् भवति तथाऽस्य न । अमुमञ्चतीति । २. विगता इच्छा यस्य । ३. वसु इच्छन्ति, क्यन् । वसूयतीति क्विप् । एवम्-पत्यः । ४. क(ह)र्तुमिच्छति जिहीर्षति, सन् । 'स्वर-हन-गम०' (४।१।१०४) दीर्घः । 'ऋतां क्डितीर्' (४।४।११६) इर् । विपदं जिहीर्षतीति विपज्जिहीः, क्विप् । 'दीर्घड्याब्०' (१।४।४५) सिलोपः । ‘पदान्ते' (२।१।६४) दीर्घः । ५. लवनं = लूनिः। 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० । दोषाणां
लूनिर्यस्मात् स, तस्य । श्लो० : १५. सू० ४१-४४ । १६. सू० ४६-४९ । १७. सू० ५०-५२ । १८.
सू० ५३-५५ । १९. सू० ५६-५९ । २०. सू० ५९-६० । २१. सू० ६१-६३ ।