________________
१२
अनुसन्धान-७७
त्वां तद्वचोऽहकं तीर्थं, त्वदीयं नौमि रक्ष माम् । त्वं मदुःखं हर प्रीत्या, वयं यूयं यदीक्षिताः ॥५।। मह्यं हित ! नमस्तुभ्यं, तव सेवा सदा मम । कामक्रोधौ युवां मां चो-ज्झतमस्मानवेत्प्रभुः ॥६॥ अस्मभ्यं नत युष्मभ्य-मिष्टं देह्यस्मदापदम् । दूरय त्वं मुदस्माकं, स्तुत्या युष्माकमस्तु च ॥७॥ हितो वो नो जनाः सोऽव्या-दीशो वीक्ष्य यमूचतुः । दम्भलोभौ मदक्रोधौ, क्रुद्धो वां नौ निहन्त्यसौ ॥८॥ मुदे हितं मतं ते मे, नौमि त्वा रक्षया भवान् । ऊना युष्मान् जिनः पातु, सन्तो मा वोऽस्तु स प्रभुः ।।९।। नेमेऽहंस्ते नमः स्वाम्यं, तव त्वां च न कोऽर्चति । समीक्ष्य त्वां जनोऽभ्येति, भाग्यात् त्वां पश्यतीह सः ॥१०॥ धन्योऽहं पासि यन्मा त्वं, जिनस्तत्त्वाऽभजन् सुराः । जना यूयं विनीतास्तत्, प्रभुर्वो भवतोऽवति ॥११॥ पश्यैतकं नतं लोक-मथो रक्षैनमीशते । मुख्येनैतेन जिग्येऽब्ज-मेनेनेन्दुः सदा श्रिया ॥१२॥ पदोरस्त्यनयोः श्रीस्ते, जनो दृष्टा(ट्वा) तदेनयोः । प्रज्ञेमि(म)केषु वाक्येषु, तदेष्वेषां सतां रतिः ॥१३।। अयं मोह इयं माया, वचसाऽपास्यनेन ते । रागद्वेषौ हतौ चेमौ, कोऽस्मिन्नाऽतः कदा रतः ॥१४॥
टि० : १. स्तुत्या युष्मान् चक्ष्महे णिज् क्विप् ।
श्लो० : ७. सू० १८-२० । ८. सू० २१, २२ । ९. सू० २३, २४ । १०. सू०
२३,२४ । ११. सू० ३१ । १२. सू० ३१, ३३ । १३. सू० ३३-३६ । १४. सू० ३७-४०।