________________
अनुसन्धान-७७
अक्ष्णोः श्रिया जिताम्भोज !, बहु नो यशसः शुचेः । दध्नः क्षीराब्धिवीराणां, समा द्विश्वान्यपूरयः ॥२८॥ वचांस्यमृतसध्यञ्चि, साधुषु प्राङ् वदन् भवान् । बहूञ्जि मोहमङ्गे युङ् बुद्ध्या श्रीयुग् मुदं व्यधात् ॥२९॥ गत्याऽनड्वान् जय त्वं स, गौद्यौर्येन कृता महैः । गा यस्याऽनुपमाः पीत्वा, पुमान् द्यामपि नैहत ॥३०॥ शैवोऽदर्शि त्वया पन्था, धर्मोऽभाषि भवाम्बुधौ । मन्थास्त्वां साधवः पथ्य, ऋभुक्षाणश्च भेजिरे ॥३१॥ ऋभुक्षाऽर्च्य पदाब्जे ते, गीश्च दर्शितसत्पथी । न्यस्यतां पथि मुक्तेर्मा, शस्यबुद्ध्या जितोशनन् ! ॥३२॥ भेजुर्धर्मधुराऽनड्वं-श्चत्वारस्त्वां नतोशन ! । अतिचत्वः ! कषायैर्गोः, सखायं सुरसञ्चयाः ॥३३॥ सोऽनेहाऽऽसीत् परो नम्र-पुरुदंशानयोशना । यत्र राजा पितेवाऽभूः, प्रियकर्ता सखेव च ॥३४॥ तस्य भद्राणि भूयांसि, हारीणि स्युर्गुणैर्महान् । तमोहा येन पूषेव, त्वं यशस्वी नतः शमी ॥३५।। नतवृत्रहणौ तेऽही, श्रितौ पङ्कजराजितौ । येन तेजोऽर्यमा कुर्या-स्त्वं तमाप इवाऽमलम् ॥३६।। देव ! स्वाम्पि सरांसीव, तृष्णां त्वां हतवानिह । देहिनां सन्महाः श्रीमान्, नीरजः सर्वदोषजः ।।३७।। टि० : १. प्रथमः । २. पन्थानमिच्छवः । ३. सोऽनेहाकालः प्रकृष्ट आसीत् । ४.
'जसूच् मोक्षणे' - सर्वदोषान् जस्यतीति क्विप् । श्लो० : २८. सू० ६२, ६३ । २९. सू० ६६, ६७, ६९-७१ । ३०. सू० ७२-७५ । ३१.
सू० ७६-७९ । ३२. सू० ७६-८० । ३३. सू० ८०-८३ । ३४. सू० ८०, ८४, ८५ । ३५. सू० ८५, ८६, ८७ । ३६. सू० ८७, ८८ । ३७. सू० ८९, ९०।।