________________
अनुसन्धान-७७
प्रजायै हितसर्वस्यै, रमाया भाजनं भवान् । सर्वस्या देव ! सर्वस्यां, कृपायामस्ति यत्नवान् ॥१०॥ साधवो दधतः क्षान्ति-कूपे अस्ताधयस्तव । अङ्ग्रीपद्ममृदू दध्युः, श्रद्धया क्षमयोः प्रिय ! ॥११॥ यो विश्वबन्धवे तेऽति-स्त्रयेऽनंसीन्न तस्य भीः । पटोः स्फुटमतेर्दीप्त्या, रविणा मञ्जुना सम ! ॥१२॥ त्वयि त्रिजगतः पत्यौ, प्राप्ते सख्यौ गुरौ च किम् । सख्याऽन्येन क्षितौ पत्या, व्रते सख्युरकाङ्क्षक ! ॥१३॥ बुद्ध्यै योऽश्लाघत तान् वै, तवाऽतन्वां नतौ रतः । चार्वाः स गुरुबुद्धेः स्या-ज्जेता बुद्धयाः शुचेर्गुरोः ॥१४॥ रत्नस्त्रियै यथा पवै, मह्यामस्पृहयालुना । सिद्धिवध्वां त्वयाऽसञ्जि, शुच्यास्तन्या जितार्जन ! (?) ॥१५॥ शिवश्रियै श्रियास्त्यागं, स्वःश्रिये स्वर्थियोऽङ्गिवत् । व्यधा विज्ञो हि रज्येन्न, श्रियां भुवि च सुभ्रुवाः ॥१६।। अक्षोभ्यः सुभ्रुवां भीनां, भेत्ताऽग्र्याणां श्रियां गृहम् । सुराणां तद्वधूनां च, वन्द्यः षण्णां हितोऽङ्गिनाम् ॥१७॥ चतुण्ाँ पदधर्माणां, पञ्चानां स्रोतसां जयी । त्रयाणां जगता त्राता, गोः प्रियोऽसि मतेर्वरः ॥१८॥ युग्मम् ॥
टि० : १. क्षमा च क्षान्तिः, क्षमा च पृथ्वीक्षमे । समानानामेकशेषः तयोः । २.
इन्द्रियाणाम् । श्लो० : १०. सू० १७, १८ । ११. सू० १९, २१, २२ । १२. सू० २३, २४ । १३. सू०
२५-२७, ३६ । १४. सू० २३, २५, २८ । १५. सू० २४, २८, २९, ३० । १६. सू० ३०, ३१ । १७. सू० ३१-३३ । १८. सू० ३२-३५ ।