________________
जून - २०१९
॥ श्रीशान्तिनाथस्तवः ॥
॥ प्रथमाऽध्यायस्य चतुर्थः पादः ॥ शान्ति शिवाय सर्वज्ञ, मुद्यनाभ्यां जनाः स्तुत । अमीभिरिमकैर्देवैः, सदाऽतिजरसैनतम् ॥१॥ को न वाक्काययोः शुद्ध्या, गुणेभ्यः स्पृहयेत्तव । शमेन जितरोषस्य, केषां वाक्येषु नादरः ॥२॥ यस्मै हिताय सर्वस्मै, शक्राः सर्वे नता रयात् । नेशुर्यस्माच्च लोकेऽस्मिन्, दोषास्तस्मान्मुदस्तु मे ॥३॥ नतिर्गुणत्वतं हेतुं, त्वादृशे क्रियते यदि । कतमस्मै तदा त्वस्मै, कतरस्मिंश्च विस्मयः ॥४॥ युष्मादृशे नमस्कार्ये-ऽन्यतरस्मिन्नतिर्मुधा । स्वस्मिन् निःस्वे हि कः स्वाये-तरस्मिन्नादरं सृजेत् ॥५॥ भावारयो रता नेमा, जिता नेमेऽजिता गुणाः । त्वयाऽनल्पे सुरास्तुष्टा, नेमुश्च त्वां चतुष्टये ॥६॥ स्वाऽन्ये दानात् त्वया स्वाऽन्या, गिरा च प्रीणिताः प्रभो ! । जने पूर्वाऽवरेऽचिन्ति, मासपूर्वे यथाहितम् ॥७॥ स्वे पूर्वस्मिन् भवे तप्तं, यैस्तेषां त्वं हि गोचरः । भुवनेऽत्र द्वितीयस्मि-स्तृतीये विश्रुतो गुणैः ॥८॥ पर्वे जिना नृपा आस-न्नसमाः केऽपि वाऽपराः । राज्यलाभेऽप्यरज्यन्त, समस्मिन्न भवादृशाः ॥९॥ टि० : १. अल्पा इमा इमकास्तैर्व्यन्तरादिभिः । २. महर्द्धिकैरिन्द्रादिभिः । ३.
'स्पृहेाप्यं वा' (२।२।२६) चतुर्थी । ४. गुणसमूहहेतुम् । ५. अन्यस्मै ।
६. चत्वारोऽपि भवनपत्यादयः । श्लो० : १. सू० १।४।१ -३ । २. सू० ४, ५ । ३. सू० ६-८ । ४. सू० ७-९ । ५. सू०
८ । ६. सू० १० । ७. सू० ११-१३ । ८. सू० १४, १६ । ९. सू० १६ ।।