SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-७७ स त्वं पिण्ढि भयं मेऽर्ति, पिण्ड्डि तप्त सतां गुणैः । सको येन जितो मोहो-ऽनेषो भूभाग आरचि ॥३३॥ नयज्ञति भवे बुद्ध-तत्त्वो वि त्वयि भक्तिभाक् । देव उत्तमधीः प्राज्ञः, "सहः ख्यातः तपः क्षमः ॥३४॥ गी:पतिको यश स्फीतं, गीर्षु धूतपयःसु ते । गीर्पतिः स्तुत्य ! तेजोऽस्ता-ऽहर्पते ! निनताऽप्सरः ! ॥३५॥ ऊनस्तवाऽन्तिकस्थोऽन्य-स्वभावोऽपि सदृग् भवेत् । योगे यथा तवर्गो हि, स्याच्चवर्गटवर्गयोः ॥३६।। लोके मूर्द्धन्यता टव-ठव-डव-ढवस्य वत् । त्वच शासनस्य पिष्टाऽघ-तमः पूष्णोऽभवज्जिन ! ॥३७॥ जज्ञे यस्त्वत् पुमाञ् शान्त-श्चवर्गाक्षरवत्समम् । कुर्युः स्वेहि तवर्गं त-दक्षाण्येकत्र संस्थितेः ॥३८॥ यस्त्वामीट्टे तमस्तस्य, वृश्चाऽप्रश्नेऽपि सत्पथम् । बम्भण्मि स्म च षटतर्का-गमा षट् स त्वरुण ननु ॥३९॥ षण्णां विशेषं हृदि दर्शनानां, मत्वा जवात् षण्णवतिं च हित्वा । पाखण्डिनां त्वामिति नौति यस्तं, शिवं भवांल्लभयताज्जिनाय ॥४०॥ इति हैमव्याकरणकतिपयोदाहरणमयः श्रीआदिदेवस्तवः । टि० : १. 'पिप्लूप् संचूर्णने । २. 'तृपौच प्रीतौ' । ३. विट् पुरुषः । ४. सह-बलेन रम.. । श्लो० : ३३. सू० ४६, ४८ । ३४. सू० ४९, ५१, ५३, ५४ । ३५. सू० ५५ ५९ । ३७. सू० ६० । ३८. सू० ६० । ३९. सू० ६०-६२ । ४०. सू० ६३, ६५ ।
SR No.520579
Book TitleAnusandhan 2019 07 SrNo 77
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2019
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy