SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ जान्युआरी- २०१९ सूत = सारथि = कृष्ण]. सहसगो-दोसहसगो बार-अट्ठ-चउदसगो। एसो रक्खतु वो देवो इगगो दुगो तिगो वा ॥ (गो = आंख)(इन्द्र-शेषनाग-कार्तिकेय-ब्रह्मा-अग्नि-शुक्र-विष्णु-शंकर) केशवं पतितं दृष्ट्वा द्रोणो हर्षमुपागतः । रुदन्ति कौरवाः सर्वे हा हा केशव! केशव! ॥ __(क = पाणी, शव = मड,, द्रोण = मगर, कौरव = कागडा) पठितः सर्वशास्त्राणि, गर्वं वहसि पण्डितः ।। वारमध्यं न जानासि, कथितोऽपि चतुष्पदः ॥ [वानर] मोमारामममादंदो-हनगदलयाभषाः । एते यस्य न विद्यन्ते तस्मै भगवते नमः ॥ rमो मा रा म म मा दं दो 1 । ह न ग द ल या भ षाः । आद्येन हीनं जलधावदृष्टं मध्येन हीनं भुवि वर्णनीयम् । अन्तेन हीनं धुनुते शरीरं तन्नामकं तीर्थपतिं नमामि ॥ [शीतल] पानीयं पातुमिच्छामि त्वत्तः कमललोचने! । यदि दास्यसि नेच्छामि नो दास्यसि पिबाम्यहम् । [दास्यसि । दासी + असि] पयस्विनीनां धेनूनां ब्राह्मणः प्राप्य विंशतिम् । ताभ्योऽष्टादश विक्रीय गृहीत्वैकां गृहं ययौ ॥ [धेनु + ऊना] अपदो दूरगामी च साक्षरो न च पण्डितः । अमुखः स्पष्टवक्ता च यो जानाति स पण्डितः ॥ [पत्र] नरनारीसमुत्पन्ना सा नारी देहवर्जिता । अमुखी कुरुते शब्दं जातमात्रा विनश्यति ॥ [चपटी वगाडवी] ब्राह्मणस्य महत्पापं सन्ध्यावन्दनकर्मभिः । कृत्वात्मरिपुसंहारं जैना यान्ति शिवालयम् ॥ [हे ब्राह्मण! स्य]
SR No.520578
Book TitleAnusandhan 2019 01 SrNo 76
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2019
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy