SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ७२ अनुसन्धान-७६ केषु स्वं प्रकटीकरोति भगवान् सीतापतिः पौरुषं मत्प्रश्नोत्तरमध्यवर्णविलसन्स्त्वां पातु सीतापतिः ॥ [स्वपुंसि, उडगाः, दरीणां, राकायां, रक्षस्सु] [पुण्डरीकाक्षः] कः खे चरति का रम्या, को ध्येयः किं विभूषणम् । को वन्द्यः कीदृशी लंका, वीरमर्कटकम्पिता ॥ [वी, रमा, ऋ, कटक, पिता] के रक्षन्तु गवां गणं गतधनप्राप्तौ च किं जायते, खे गच्छन्ति च के क्व रुद् गजकटान् भिन्दन्ति के वै बलात् । बालायाः कथमंशुके क्व रमते ना कासु सिद्धाः स्थिराः मत्प्रश्नोत्तरमध्यवर्णरचिताच्चाशीः समुज्जृम्भताम् ।। [गोपालाः, कौतुकम्, पत्रिणः, रिपुषु, तरक्षाः, कौसुम्भे, सुन्दर्याम्, दरीषु, पातु त्रिपुरसुन्दरी] देवराजो मया दृष्टो वारिवारिणि मस्तके । भक्षयित्वार्कपत्राणि विषं पीत्वा क्षयं गतः ॥ [ ] रम्ये वसन्तसमये वद किं तरूणां किं क्षीयते विरहिणामुरगः किमेति । . किं कुर्वते मधुकरा मधुपानलुब्धाः कीदृग् वनं करिवरास्त्वरितं त्यजन्ति ॥ [दलं, बलं, बिलं, कलं, दवविकलम] को निर्दग्धस्त्रिपुररिपुणा कश्च कर्णस्य हन्ता, नद्याः कूलं विघटयति कः कः परस्त्रीरतश्च । कः सन्नद्धो भवति समरे भूषणं किं कुचानां, किं दुस्संगाद् भवति महतां मानपूजापहारः ॥ [मारः, नरः, पूरः, जारः, परः, हारः, मानपूजापहारः] अगजामातृजामातृ-पुत्रपत्राशनान्तकृत् । भ्रातृभर्तृसुतस्यारेः सूतो वो दुरितं हियात् ॥ [अगजा = गौरी; मातृ = मेना; जामातृ = शिव; पुत्र = षण्मुख; पत्र = वाहन(मयूर); पत्राशन = गरुड; भ्रातृ = भाई (गरुडनो भाइ अरुण); भर्तृ = स्वामी (सूर्य); सुत = पुत्र (सूर्यनो पुत्र कर्ण); अरेः = शत्रु (अर्जुन);
SR No.520578
Book TitleAnusandhan 2019 01 SrNo 76
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2019
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy