________________
१७
जान्युआरी- २०१९
२. जिनस्तवनम् शिवशिरसि निवासं यः सदाशाविकाशं,
जनयति जिनचन्द्रः प्रत्तपापाबु(म्बु?)तन्द्रः । सततमुदयकर्तृत्वेन तं गुप्तकर्तृ
प्रभृतिरचनतोऽहं नौमि भक्त्या तमोहम् ॥१॥ जननमृतितरङ्गापारसंसारवार्द्ध
स्त्रिभुवनजनतारं यानपात्रानुकारम् । जिनगुणगणरम्यं त्वां निरीक्ष्योत्सुकत्वं,
किमु न भजति सिद्धिद्वीपसंप्राप्तिहेतोः ॥२॥ विमलविपुलभास्वत्केवलालोकलक्ष्मी
प्रकटितभुवन! त्वं देव! सद्यः प्रसद्य । शमितविततरोष! ध्वस्तनिःशेषदोष!,
प्रणतसुरहरिद्रो! दुःखिने देहि मन्यम् ॥३॥ प्रणमदमरनाथप्रार्थ्यमानांहिसेव!
स्फुटमशिवमियन्तं नाथ! कालं विनाथः (?) । प्रशमितभवतापं ध्वस्तभावारिवारा
ऽजनिषि पुनरिदानीं सर्वथाऽहं सनाथः ॥४॥ नतहितशतकारी त्वं भुवि ज्ञानभाभिः
परम इति सतृष्णं नाथ! विज्ञप्यमानः । प्रवितर शिवशर्माऽनन्तदुःकर्ममर्मा
ऽचलकुलिशविलम्बं मा स्म कार्षीरिहाऽर्थे ॥५॥ मदमदनकषायोद्दामदावानलाचिः
प्रशमनघन! मन्ये पुण्यवानद्य नाऽन्यः । सदतिशयसनाथस्त्वं प्रभो! भाग्यलभ्यः,
स्फुरसि हृदि मदीये यत् परात्मस्वरूपः ॥६॥ सुरनरवरहंसश्रेणिसंसेवनीयं,
सकलभुवनलक्ष्मीकेलिसद्मांहिपद्मम् ।