________________
जान्युआरी- २०१९
पांच गुणो इत्यादि । षोडशसहस्रयोजनबाहल्यस्य प्रथमस्य खरकाण्डस्यापेक्षया तृतीयः पुत्रो ह्याबहुलकाण्डलक्षणः, स चाऽशीतिसहस्रयोजनबाहल्यप्रमाणः, सुतरां पञ्चगुण एवेत्यमीषां लिङ्गनिरूपणे रूपेण लिङ्गतो नपुंसकत्वं स्पष्टम् ॥१३॥
बेटा तीनइं माहिलो रे, जे पहिलो गुणवंत, दस बि च्यार तस छोरडां रे, सघला सरिखां संत १४
बेटा तीनइं इत्यादि । अत्र रत्नप्रभाया रमणीत्वेन चिन्तिताया भर्तृचतुष्कवृतायाः खरकाण्ड[-ण्डादि]त्रयाणां पुत्रत्वेन परिकल्पितानां मध्ये प्रथमः पुत्रः खरकाण्डरूपो यो षोडशप्रकारप्रभिन्नः तद्-तदद्भुतरत्नकाण्डादिगुणसन्दभितत्वाद् गुणवान् सिद्धः । तस्य च दश-द्वय-चत्वारीति क्रमगणनया षोडशसङ्ख्याकाः सुता रत्नकाण्डादयः । ते च प्रथमं रत्नकाण्डम्, द्वितीयं वज्रकाण्डम्, तृतीयं वैडूर्यकाण्डम्, चतुर्थं लोहिताक्षकाण्डम्, पञ्चमं मसारगल्लकाण्डम्, षष्टं हंसगर्भकाण्डम्, सप्तमं पुलककाण्डम्, अष्टमं सौगन्धिककाण्डम्, नवमं ज्योतीरसकाण्डम्, दशममञ्जनकाण्डम्, एकादशमञ्जनपुलककाण्डम्, द्वादशं रजतकाण्डम्, त्रयोदशं जातरूपकाण्डम, चतुर्दशं मरकतकाण्डम्, पञ्चदशं स्फटिककाण्डम्, षोडशं रिष्टकाण्डम् । इत्येते सर्वेऽपि तस्याः पौत्रत्वेन भावितत्वात् पौत्राः सर्वेऽपि सदृशाः । सहस्र-सहस्रयोजनबाहल्यस्य तुल्यत्वात् समीचीनत्वं रत्नगुणगौरवत्वाद्, नपुंसकत्वं च तथालिङ्गव्यपदेशादिति ॥१४॥
ओढण पहिरण तस नहीं रे, नागी निरखी तेह, तउ ही पणि लाजइं नहीं रे, कुलवंती परि जेह १५
ओढणेत्यादि । तस्याः प्रावरणपरिधानपरिहीणत्वाद् नग्नेव नग्ना निरीक्षिताऽपि न लज्जते, कुलवती च । यथा किल लोके सकलालङ्कारांऽशुकसंवृता कुलवधून लज्जते, तथेयमपि । तथाऽर्थान्तरम्, 'कुः पृथिव्याम्' [इति शब्दं] लपन्ती तथा कु-कुत्सितं लपन्ती काचिद् भाण्डादिचेष्टां कुर्वाणा हीनः जातिका (हीनजातिका) स्त्रीर्न लज्जते, तथैवेयं वेति ॥१५॥
सुसरुनइं सासू नही रे, माय बाप नहि तास, भाई भोजाई नही रे, जन्म जरा नवि जास १६