________________
१०
अनुसन्धान-७६
काण्डरूपस्वरूपत्वादिति ॥९॥
मोटो वर छोटु घणुं रे, प्रथम वडेरु जेह, नारीथी पणि पातलो रे, नारीथी पणि नान्हडउं रे,
पुहुतउ नारी छेह १० मोटो वरेत्यादि । अत्र प्राथम्येन परिकल्पितस्य घनोदधेर्वरत्वेन कथितस्य प्राथम्यात् - प्राधान्याद्, वृद्धस्य - विंशतिसहस्रयोजनबाहल्यस्य रत्नप्रभाया अशीतिसहस्राभ्यधिकलक्षयोजनबाहल्यायाः सकाशाद् हीनत्वं स्पष्टम्, परं स नार्या रसायाश्चरमान्तप्राप्त इति ॥१०॥
बीजा तीन सरीसडा रे, त्रिणिमांहि पणि जाणि, जेह जेहथी पाछिलो रे, ते पुखतो परिमाणि ११
बीजा तीनेत्यादि । अन्ये त्रयो वरा घनवात-तनुवाता-ऽवकाशान्तरलक्षणाः सर्वेऽपि बाहल्यतोऽसङ्ख्येययोजनसहस्रप्रमाणाः, तेन सदृशाः, परं परस्परं यो यस्मात् पाश्चात्त्यः स पूर्वस्मादधिकाधिकतरासङ्ख्येयत्वसङ्कलित इति वक्तव्यम् ॥११॥
__इति वरत्वेन कल्पितानां घनोदधि-घनवात-तनुवातानां पुंलिङ्गानां नपुंसकलिङ्गस्याऽवकाशात(न्त)रस्यापीति चतुर्णां वराणां सामान्यतः स्वरूपं निरूप्य पुत्रत्वेनोक्तानां खरकाण्डादीनां स्वरूपं बिभणिषुराह -
बेटो पहिलेरु वडो रे, नान्हडिउ कहिवाय, बीजो पांच गुणो भण्यो रे, ऊपरि अधिक सवाय १२
बेटो पहिलेरु इत्यादि । स्त्रीरूपत्वेन कल्पिताया रत्नप्रभायाः पुत्रत्वेनोक्तानां खरकाण्डादीनां मध्ये प्रथमस्य खरकाण्डस्य षोडशसहस्रयोजनबाहल्यस्य, चतुरशीतिसहस्रयोजनबाहल्यस्य पङ्कबहुलकाण्डस्य चाऽशीतिसहस्रयोजनबाहल्यस्याऽप्बहुलकाण्डस्यापि सकाशाल्लघुत्वं सुगममेवेति । अथ द्वितीयः पुत्रः पङ्कबहुलकाण्डरूपः, स च प्रथमापेक्षया सपादपञ्चगुण एव, चतुरशीतिसहस्रयोजनप्रमाणबाहल्योपेतत्वादिति ॥१२॥
पांच गुणो पहिला थकी रे, त्रीजो ते पणि होइ, एहवा ए त्रिणि छोरडा रे, जाति नपुंसक जोइ १३