SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ जान्युआरी- २०१९ or राति दिवसेति । सुगमम् । नवरं, स्थूलं शरीरं लक्षमेकमशीतिसहस्रोत्तरं योजनानां बाहल्यतः, परं शिरसि भूयान् भारस्तु प्रत्यक्षतः । स्वतोऽपि भूरिभारवतीति ॥५॥ देखीती दीसइं नहीं रे, आहरई नीहारि, ऊपाडी नवि ऊपडई रे, सउ वरसे सा नारि ६ देखीतीत्यादि । सा च महीमहेला आहरन्ती, नीहारं कुर्वाणापि न दृश्यते - चर्मचक्षुषा नोपलभ्यते । यत एकेन्द्रियाणामपि स्वस्वप्रायोग्याहारसद्भावाद्, आहारवतश्च प्रायो नीहारक्रियानिष्ठत्वात् तत्तदुचितपुद्गलोद्वमनादिति । तथा स्थिरा - शाश्वतस्वाभाव्यादुत्पाटनाशक्या, वर्षाणां शतैः सहस्रैर्लक्षैः कोटिभिरिति ॥६॥ तीन पुरुष साथिं मिल्यो रे, जाति नपुंसक एक, तेणे च्यारे जणे वरी रे, सा नारी सुविवेक ७ तीन पुरुषेति । सा क्षमारामा चतुर्भिर्घनोदधि-घनवात-तनुवातैः पुंलिङ्गत्वोच्चार्यमाणत्वात् पुरुषैः, एकेन नपुंसकलिङ्गदेश्याऽऽकाशरूपनपुंसकेन सहितैर्वृता - वलयाकारोपपन्नघनोदध्यादिभिर्वेष्टितेति ॥७॥ तीन पुत्र तेणिं जण्या रे, तउ हुई बालकुंआरि, बहु संसारी जीवडा रे, वरतइं तस आधारि ८ तीन पुत्रेत्यादि । तया च तादृग्वरवृतत्वेन सप्रसूत्या भवितव्यम् । तदतस्तया त्रयो नन्दना जनिताः । कथमिति चेत् ? अस्यां रत्नप्रभायां त्रैविध्यं प्रज्ञप्तम् । यथा - खरकाण्डम्, १ पङ्कबहुलकाण्डम्, २ अप्बहुलकाण्डम् ३ इति त्रिभेदकल्पनया चैतानि त्रीण्यपि पुत्रत्वेन प्रज्ञप्तानि । तथापि बालेव बाला सर्वकालं नवीनेव, अत एव कुमारी । लोकेऽपि 'कुंआरी माटी'ति रूढिः । तथा बहवः संसारिणो जीवा एकेन्द्रियादयः पञ्चेन्द्रियपर्यन्तास्तस्या एवाऽऽधारेण वर्तन्त इति ॥८ जेणे च्यारे जणे वरी रे, सा नारी बहु रूप, ते च्यारइंनुं सांभलो रे, विगति सयल सरूप ९ जेणे च्यारेत्यादि । सुगमम् । नवरं, बहुरूपत्वं हि पृथक् पृथक्
SR No.520578
Book TitleAnusandhan 2019 01 SrNo 76
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2019
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy