________________
अनुसन्धान-७६
कई संवत्सर बार सुहज्जन, कई वलि वरस अढार सुहज्जन,
कहिइं अर्थ.... २ (ए आंकणी) सुगुण सुलक्षणेत्यादि । अस्यार्थलेशो यथा - अत्र भूरूहभूधराद्यशेषविशेषपदार्थाऽऽधारभूतायाः सामान्यतः पृथिव्याः स्त्रीत्वेन भाविताया अपि रत्नप्रभाया-स्तिर्यग्लोकोपयोगिन्याः सङ्ग्रहः । तत्र चैका नारी वस्तुतो रत्नप्रभेति गोत्रवती, घर्मेति नाम्नी । तस्याः स्वरूपं चेतसि चिन्तयत । 'सुहृज्जनाः' इत्यध्याहारः । शेषं सुगमम् । नवरम्, सुगुणा - नैयायिकादीनां मते 'गन्धवती पृथिवी' [तर्कसंग्रहः] इति पृथिव्या लक्षणेन चतुर्दशगुणोपेता, जैनानां मतेऽपि सकलशस्याद्युत्पत्ति-निमित्तभूतत्वेन सुगुणा । सुलक्षणा - विविधलक्षणलक्षितत्वेनेति । सुन्दरीति स्त्रीनामनिर्देशाद् गुणवन्नामेत्यर्थः । परमागमश्रीभगवतीप्रज्ञापना-जीवाभिगमोपाङ्गा-द्यनुसारेणेति गाथाद्वयार्थः ॥१,२॥
नयण नाक दीसइं नहीं रे, नहि पिण कर्णाकार, वदन-विहूणी घुरघुरई रे, सूचई अशुभ विकार ३ .
नयने(णे)ति । अस्या एकेन्द्रियत्वेन शरीरशेषाया नयननक्रे न दृश्येते, नापि कर्णाकारः । वदनादिविशेषावयववर्जितत्वेन विना वदनं घुघुरारवं तन्वाना सूचयत्यशुभविकृतिम् । यदि कदाऽप्युपद्रवसूचको भूकम्पादिर्भवेत् तदा ह्यव्यक्तशब्दाविर्भावः स्यात्, यद्वा दैत्यादीनां मिथो युद्धे जायमाने पाददर्दरादिनाऽप्यकाण्डताण्डशब्दस्योत्थानादिति ॥३॥
कर-चरणादि न देखिइं रे, भक्खइं भक्ख अभक्ख, हीडई नहि हालइ नही रे, जाई जोयण लक्ख ४
कर-चरणेति । पञ्चेन्द्रियप्रायोग्यावयवशून्यत्वात् । तथा भक्ष्यं - धान्यबीजादि, अभक्ष्यं - मृतकलेवरादि, यद्वा प्रज्ञापनासत्काहारपदोक्तं पृथिव्या जीवाहारस्वरूपम्, तत्र भक्ष्याभक्ष्यस्वरूपस्य प्रकटत्वादिति । तथा स्थिरत्वेन स्थानाद् न चलति, परं योजनलक्षाणि याति - प्राप्नोतीत्यर्थः । किञ्च रज्जुमिततिर्यविस्ताराद्, योजनासङ्ख्येयलक्षप्रमाणत्वादपि ॥४॥
राति दिवस बइंठी रहई रे, थूल शरीर अपार, माथई भार घणो वहई रे, पोतइं पणि घणु भार ५