________________
२०
अनुसन्धान- ७५ ( २ )
क्र. ९नां उपाख्यानो क्र. ५४ पछीना फकरामां पुनः जोवा मळे छे. ए ज रीते क्र. १३नां उपाख्यानो ज क्र. ५५ (५४) मां पुन: लखायां छे.
आकृतिना कर्ता विषे जाणकारी प्राप्त करवानुं कोई साधन नथी. परन्तु कोई जैन साधु आना कर्ता वा संकलनकार हशे ए तो आमां आवतां जैन सन्दर्भों द्वारा स्पष्ट जायतेम छे.
लीक अशुद्धि पण जोवा मळे छे. बीजी प्रति मळे तो आ वाचना शुद्ध थवानो संभव खरो.
निजी संग्रहनी, सम्भवतः १७मा शतकमां लखायेली, ३ पत्रोनी एक प्रति परथी आ सम्पादन थयुं छे.
*
उपाख्यानकानि ॥
यथा रजनी चन्द्रेण शोभते, नभः सूर्येण, प्रासादो देवेन, मुखं नासिकया, वल्ली कुसुमेन, कुलं पुरुषेण, कुलवधूः शीलेन, प्रेक्षणकं गीतेन शोभते ॥१॥ सिंहेन वनं वनेन सिंहः, मुखेन नासिका नासिकया मुखं, पात्रं गुणैश्च गुणा: पात्रेण, कमलं जलाशयेन जलाशयः कमलेन, सुवर्णं रत्नेन रत्नं सुवर्णेन, अमात्येन राज्यं राज्येनाऽमात्यः ॥२॥
यथा शस्त्रहीनो वीरः, मन्त्रहीनो मन्त्री, प्राकारहीनं नगरं, स्वामिहीनं बलं, दन्तहीनो गजः, कलाहीनः पुमान्, तपोहीनो मुनिः, प्रतिज्ञाहीनः पुरुषः, शीलहीनो मुनिः, नायकहीना नायिका, दानहीनं धनं, स्वामिहीनो देशः, वेदहीनो विप्रः, गन्धहीनं कुसुमं, नयनहीनं मुखं, वनहीनं सरः, शीलरहिता नारी, दयाहीनो धर्मस्तथा न शोभते ॥३॥
नायिकानेत्रवत्, विद्युल्लताविलासवत्, सन्ध्याभ्रडम्बरवत्, वातान्दोलितध्वजाग्रवत्, समुद्रकल्लोलवत्, सज्जनकोपवत्, दुर्जनमैत्रीवत्, वेश्यास्नेहवत्, गिरिनदीवेगवत्, गजकर्णवत्, शरत्कालमेघवत्, चञ्चलं जीविताद्यम् ॥४॥
मर्कटो नालिकेरेण, काको रत्नेन, वणिक् खड्गेन, बधिरो वीणया, दरिद्रो लीलया, दिगम्बरो दुकूलेन, मुनिः आभरणेन किं कुरुते ? ॥५॥
इन्दुः स्वैरिणीनां, उद्योतश्चौराणां, दीपः पतङ्गानां, सूर्यः कौशिकानां,