________________
१८
अनुसन्धान- ७५ (२ )
कोशलापुरवरे पूतविजयोदरं भूपजितशत्रुकुलकमलवनदिनकरम् । द्विगुणनवशतकरप्रमितवरभूघनं नौमि कनकाभमिभचिह्नमजितं जिनम् ||६|| गजपुरे विश्वसेनेशकुलभूषणं रुचिरमचिराङ्गरुहमनघमृगलक्षणम् । षष्ट्यधिकहस्तशतवपुषमुत्तमसुखं शान्तिनाथं च गाङ्गेयगेयत्विषम् ॥७॥ जलधिरसनावनीविततवरसा (शा) सनं चिन्तितोपस्थितद्विरदतुंरगासनम् । ललितललनाजनाबद्धबहुबर्करं यौ चिरं राज्यमवतः स्म विस्मयकरम् ॥८॥ नदनुदमुजाहिनप्रथितमहिमोदयं (?) वर्षदानेन परिपुष्टजनसमुदयम् । जगृहतुः स्वहितकामावकामं व्रतं तौ नमस्कृत्य तोषं भजेऽनवरतम् ॥९॥ तमसि जी(जा?)ते ययोरखिलदोषोदिते निपुणनीरजवने निव (बि) डमामोदिते । उदितवति केवलज्ञानभानौ द्रुतं दिवसपतिनाऽपि खद्योतपोतायितम् ॥१०॥ यत्पदाम्भोजभजनाय जातत्वरैः संघसंघट्टन (ना) घृष्टभूषणभरैः । व्यूढमपि रुचिरचिररूढरसनिर्भरैः पाणितलमानमभवन्नभो निर्जरैः ॥११॥ भरितभवदुरितदवदहनपरितापिता सदसि यद्वाचमपि पुण्यबुद्धयापिता । सत्यसन्धा सुधासारसेकं नरे- शामरेशा मुदा सर्वदा मेनिरे ||१२|| आतपत्रत्रयं चारवश्चामराः कोटिसङ्ख्या भजन्तेऽभितश्चाऽमराः । अनुपहतदुन्दुभिध्वनितमच्युतपदे यदतिशयराजिरेखा न केषां मुदे ? ॥१३॥ बोधयित्वाऽथ तत्त्वानि धीरं जनं यो गतो योगतो धाम नीरञ्जनम् । तमहमजितं च शान्तिं च चञ्चद्युतिं सुचिरमञ्चामि पञ्चेषुविजयोद्यतम् ॥१४॥ द्विप-रिपु- व्याल - वेताल-रोगा -ऽन - ऽनला - नीर - चौरादयोऽन्येऽपि सकलाः खलाः। तं न लुम्पन्ति कञ्चुकिन इव वञ्जुलं नमति यो विमदमिदमेव जिनयामलम् ॥१५॥ पाक्षिके किल चतुर्मासिके वार्षिके पर्वणी (णि) प्रकृतपरपुण्यनरनायि(य?)के। योऽमुमतिसोममतिरजितशान्तिस्तवं पठति निशृणोति लभते सुखं स ध्रुवम् ॥१६॥ गुणराजिविराजिततमरिपुराजित-मजितशान्तिजिनयुगलमिदम् ।
मति सु(?) सभाजनमतिशयभाजन - मुपजनयतु संघस्य मुदम् ॥१७॥ इति श्रीअजितशान्तिस्तवन सम्पूर्णं ॥
*
* *