________________
१६
अनुसन्धान- ७५ (२)
गमाः - सदृशपाठास्तैर्हारि- मनोज्ञं, नया - नैगमाद्यास्तानालीयते आश्लिष्यतीत्यचि नयालयं, तद्गृहमित्यर्थः । यन्मतं परशास्त्रसम्बन्धिन्याया लक्ष्म्या लयं - प्रकर्षं गतयाऽपि नाऽहारि - न हृतम् । लक्ष्मीवाचकेन ईशब्देन तृतीयान्तेन या रूपनिष्पत्तिः । यत् किम्भूतम् ? वितता - विस्तीर्णा भङ्गस्त- तद्वस्तुप्ररूपणप्रकारा
यत्र तत्तथा ।
-
-
भवतु विघ्नविघातविधायिका तनुभृतां सकलश्रुतनायिका । श्रयति या स्वतनुं विशदद्युता
तनुभृतां सकलश्रुतनायिका ॥ २८ ॥ छ ॥ ग्रं० ३०॥ अवचूरिः सकलश्रुतस्य द्वादशाङ्गरूपस्य नायिका - स्वामिनी - श्रुतदेवता, प्राणिनां विघ्नविघातविधायिका भवत्विति क्रियादिसम्बन्धः । यातनु यथा स्यादेवं निर्मलकान्त्या भृतां स्वतनुं श्रयति । किंविशिष्टं ? - सकलं - सातिशयं यत् श्रुतं, तस्य नायिका प्रापिका ॥२८॥
॥ इत्यवचूरिः समाप्ता ॥ छ ॥ अवचूरिग्रन्थाग्रं श्लोक - ७३ ॥
* * *