________________
सप्टेम्बर - २०१८
अथ साधारणवृत्त्या सर्वजिनस्तुतिमाह -
जिनपतिर्भवतो भवतोऽवता
दमर-दानव-मानवनायकैः । श्रितपदो यदुपास्तिरकारि ना
ऽदमरदाऽनवमानवनाय कैः ॥२५॥ अवचूरिः भवतः - संसाराद्, भवतो - युष्मान्, अवताद् - रक्षतात् । देव
दानव-मानवस्वामिभिः, श्रितपदकमलः । यस्य जिनपतेः उपास्तिः - सेवा, कैर्नाऽकारि ? अपि तु सर्वैरपि कृतैव । किमर्थम् ? अवनाय - रक्षणाय, अर्थात् संसारादिभयात् । उपास्तिः किम्भूता? - अदमं "रदति लेखने" - इति वचनात्, रदतीत्यदमरदा - अशमच्छेदिका। भवतः किम्भूतान् ? - अनवमान् - भक्त्यादिना प्रकृष्टान् ॥२५॥ शिवसुखाय भवन्तु जिनेश्वराः
समतया हितयाऽमलमानसाः । सुरवरैर्महिता बहुरूपया
__ऽसमतयाऽऽहितया मलमानसाः ॥२६॥ अवचूरिः समतया हितया - हितकारिण्या, अमलं मानसं येषां ते तथा,
बहुप्रकारया, सुरवरैराहितया - स्थापितया, असमतया - निरुपमप्रातिहार्यादिलक्ष्म्या कृत्वा सुरवरैः पूजिताः । कर्माद्यन्तर्मलं मानं च स्यन्तीति मलमानसाः ॥२६॥ जिनपतेर्मतमस्तु शिवाय तद्
_ विततभं गमहारि नयालयम् । परकुशास्त्रजुषा गतयाऽपि यद्
विततभङ्गमहारिनया लयम् ॥२७॥ अवचूरिः वितता - सर्वत्र विस्तृता भा - दीप्तिः शोभा यस्य तत् तथा ।
यद्वा, अग्रे विस्तीर्णार्थ-विततशब्दग्रहणेनाऽत्र पौनरुक्त्यपरिहाराय "ततं वीणाप्रभृतिक "मिति वचनात्, विशिष्टा ततस्य वीणादिवादित्रगणस्य भा - दीप्तिः, स्वरूपप्रतिपादनादिरूपा यत्र तत्तथेति आख्येयम् ।