________________
अनुसन्धान-७५(२)
श्रीनमेः पुनतः पादान्, विशालं विजयान्वयम् ।
पूज्यस्य संस्तुमः सर्व-विशाऽऽलम्बिजयान् वयम् ॥२१॥ अवचूरिः सर्वविशा - सर्वजनेन, पूज्यस्य आलम्बी - आश्लेषी जयो येषां
येभ्यो वा ते तथा, तान् । पादविशेषणमिदम् ॥२१॥
श्रीनेमे ! क्रियते येन, विभयाऽसमयाऽऽदरः ।
स्तुतौ ते भासुराऽयं स्याद्, विभया समयाऽदरः ॥२२॥ अवचूरिः हे विभय ! - विगतसंसार !, हे [वि] भय ! ते - तव स्तुतौ, येन
- पुंसा, समो - निरुपम आदरः क्रियते, अयं - पुमान्, अदरः - सप्तभयादिरहितः स्यादिति क्रिया-कळदिसम्बन्धः । हे भासुर ! - दीप्र!, कया ? - विभया - देहकान्त्या भामण्डलादिकान्त्या वा, किंभूतया? - समया - साध्व्या, यदनेकार्थः - "समं साध्वखिलं सदृ"गिति । यद्वा, सह मया प्रातिहार्यादिलक्ष्म्या वर्तते या विभा सा समा, तया । प्रातिहार्यादिलक्ष्म्या देहादिकान्त्या च भासुर इति भावः ॥२२॥
श्रीमत्पार्श्वप्रभोर्वन्दे, पादद्वयमुदारताम्।
बिभ्रद् विश्वां यदापद्भ्योऽपादद्वय ! मुदा रताम् ॥२३॥ अवचूरिः भक्तजनेभ्योऽभीष्टदानादिहेतोरुदारतां बिभ्राणं श्रीपार्श्वप्रभोस्तत् पादद्वय
महं वन्दे । यत् पादद्वयमद्वयमद्वितीयं मुदा रतामासक्तां, विश्वांपृथ्वीमापद्भ्यो अपात् - अरक्षत् ॥२३॥
यः श्रीवीर ! स्तुते तेऽस्तपरमान ! यशोऽभितः ।
लभतेऽसौ श्रियः का नो, परमा नयशोभितः ? ॥२४॥ अवचूरिः हे श्रीवीर ! अस्तः - क्षिप्तः, परः - प्रकृष्टो, मानो येन स तथा,
तत्सम्बोधने हे अस्तपरमान!, ते - तव, अभितः - सर्वतो विस्तृतं यशः स्तौति, असौ - पुरुषो, नयशोभितः सन् काः परमाः श्रियो नो लभते ? अपि तु सर्वा अप्यसौ श्रियः प्राप्नोत्येवेति ॥१२४॥