________________
सप्टेम्बर - २०१८
जगति - विश्वे, नवो - नव्य इन्दुश्चन्द्रोऽसि । भवं - संसारं द्वेष्टीत्येवंशीलो भवद्वेषी । भवमौलौ स्थितत्वादपरश्चन्द्रश्च न भवद्वेषी, भवशब्देनेश्वरोऽपि । ए: - कन्दर्पस्य तापमपहन्तीति इतापहः । चन्द्रस्तु विरहिणां कन्दर्पतापकृदिति ततो नवत्वं भगवतः ॥१६॥
कुन्थुनाथ ! प्रसादात् ते, सुरमानवमानितः ।
न कः पुमान् भवेद् ? भोगान्, सुरमानवमानितः ॥१७॥ अवचूरिः सुर-मानवैर्मानितः - पूजितः, कः पुमान् न भवेद् ? अपि तु
सर्वोऽपि, तव प्रसादात् भवत्येव । [सुरमानवमान् -] शोभनरमाप्रधानान् भोगान् इतः - प्राप्तः सन् ॥१७॥
अरनाथ ! श्रियाऽपार-परभागमनोहरः ।
न केषां प्राप्तसंसार-परभाग ! मनोऽहरः ? ॥१८॥ अवचूरिः अपारो-ऽप्रमाणो यः परभागो - गुणोत्कर्षस्तेन मनोहरः - प्रधानः ।
प्राप्तः संसारस्य परभागो येन तत्सम्बोधनम् । हे श्रीअरनाथ ! श्रिया - प्रातिहार्यादिलक्ष्म्या त्वं केषां न मनोऽहरः? - हृतवान् ? अपि तु सर्वेषामिति भावः ॥१८॥ श्रीमन्मल्लिजिनाधीश!, समतासारमानसः ।
नतस्त्वं येन काः प्रापाऽसमतासा रमा न सः ? ॥१९॥ अवचूरिः समतया सारं मानसं यस्य स तथा । त्वं येन नतः स - पुरुषः
का रमा न प्राप? अपि तु सर्वा अपि प्राप्तवान् । रमाः किम्भूताः? असमताम् - असम्पूर्णतां स्यतीत्यसमतासाः, क्विप् इति डप्रत्यये रूपनिष्पत्तिः । असमतासाः - सम्पूर्णा इत्यर्थः ॥१९॥
श्रये त्वां शरणं दोषाजित ! पद्मातनूद्भव ! ।
श्रीसुव्रत ! जगज्जैत्र !, जितपद्मातनूद्भव ! ॥२०॥ अवचूरिः पद्मानामा (म्नी) भगवतो जननी । तत्तनूजो भगवान्, तत्सम्बोधनम् ।
जगज्जैत्रः । जितः पद्मातनूद्भवो - मन्मथो येन, तत्सम्बोधनम् ॥२०॥