________________
अनुसन्धान-७५(२)
अवचूरिः वा समुच्चये । नराद्यैर्हे सुपूज्य !, शिवमेवाऽऽलयो यस्य स तथा ।
[शिवालयः] - कल्याणश्रेणयः ॥१२॥
यस्त्वं धत्से नृणां देव !, भवाब्धौ तारकप्रभाम् ।
विमल ! श्रेयसे बिभ्रद्, भवाऽब्धौतारकप्रभाम् ॥१३॥ अवचूरिः संसारसमुद्रे तारकतुलाम् । हे श्रीविमल! स त्वं श्रेयसे भवेति
क्रियादिसम्बन्धः । अद्भिः पानीयैधौतं यदारमेवाऽऽरकं - पित्तलं, तस्य प्रभां - कान्ति बिभ्रद् - दधान इति; सुवर्णवर्णत्वात् निर्मलपित्तलप्रभां बिभ्राण इति भावः ॥१३॥
वन्देऽनन्तजितः पादान्, परमानन्ददायिनः । ।
कर्मणां मर्मणां लक्ष्या, परमानन्ददायिनः ॥१४॥ अवचूरिः परम आनन्दो यत्रेति व्युत्पत्त्या परमानन्दो - मोक्षस्तद्दातुरनन्तजितः
श्रीअनन्तनाथस्य पादानहं वन्दे इति सम्बन्धः । कर्मणां यानि मर्माणि तेषाम् 'अदु बन्धने' इति वचनात् अन्दनमन्दो - बन्धस्तं द्यति - छिनत्तीत्येवंशीलो यस्तस्याऽनन्तजित इदं विशेषणं, कर्ममर्मबन्धच्छेदकस्येति भावः । पादान् किंविशिष्टान् ? - गज-वृष-चक्राङ्कुशादिश्रिया परमान् - प्रकृष्टान् ॥१४॥ श्रीमद्धर्मजिनो जीयाद्, वारितापदघ-स्मरः ।
नृणामन्तर्मलापोह-वारि तापदघस्मरः ॥१५॥ अवचूरिः आपदश्च, अघानि च, स्मरश्चाऽपदघस्मराः, वारिता-निषिद्धा
आपदघस्मरा येन स तथा । अन्तर्मलः कर्माष्टकादिरूपस्तदपोहे वारि - पानीयं जिनः । तापदानां - सन्तापदानां घस्मरो - विध्वंसनशीलः ॥१५॥ श्रीमत् शान्तिप्रभो ! पाहि, जगतीं दुरितापहः ।
भवद्वेषी नवो यस्त्वं, जगतीन्दुरितापहः ॥१६॥ अवचूरिः जगतीं - भुवनं पाहि - रक्ष । दुरितमपहन्तीति तथा । अग्रे
यच्छब्दयोगादत्र स इति लभ्यते । तेन स त्वं जगतीं पाहि, यस्त्वं