________________
सप्टेम्बर - २०१८
स्तुमस्ते पुनतः स्वामिन् !, महसेननृपान्वयम् ।
पादान् मोदयतो ज्ञान-महसेन ! नृपान् वयम् ॥८॥ अवचूरिः हे स्वामिन् ! महसेनराजकुलं तव पुनतः पादान् वयं स्तुम इति
क्रियादिसम्बन्धः । तव किं कुर्वतः ? मोदयतः नृपान् - प्रमोदं प्रापयतः । हे इन ! - सूर्य !, केन? ज्ञानमेव यन्महस्तेजस्तेन ॥८॥
कुरु श्रीसुविधे ! बोधि, मम मोहमहोजयी ।
यया संसारशत्रोः स्यामममोऽहमहोऽजयी ॥९॥ अवचूरिः भवान्तरे श्रीजिनधर्मप्राप्तिर्बोधिः, यत्तदोनित्यसम्बन्धादत्र तामित्य
ध्याहार्यम् । मोहस्य यन्महः - प्रतापस्तज्जयवान् । यया बोध्या कृत्वाऽहमममो निर्ममः सन् संसारशत्रोर्जयकरः स्याम् । अहो इति विस्मये । संसारशत्रुजयकार्याद्धि न परं विस्मयकरं कार्यमिति भावः । यद्वा जयीति पौनरुक्त्यभीत्या संसारशत्रो रजः क्षेपकः स्याम् । अहेति किलार्थे, उ इति चादौ सम्बोधनार्थे, ई इति पादपूरणे, तेनाऽखण्डाहो इति शब्दाभावादत्र सन्धिरिति ॥९॥ त्रिकालं चरितं चित्ते, स्मरामोऽभयवर्धनम् ।
श्रीशीतलजिनेन्द्रस्य, स्मरामोभयवर्धनम् ॥१०॥ अवचूरिः अभयस्याऽभयदानस्य संसाराद् भयाभावस्य वा वृद्धिकरम् । स्मरश्चा
ऽऽमश्च रोगो बाह्याभ्यन्तरस्तदुभयस्य वर्धनं - छेदकं, वर्धण् छेदनपूरणयोरिति वचनात् ॥१०॥ भावतो यैः श्रितः सिद्धौ, श्रेयांसः सत्वराशयः ।
ते भवन्ति सदा लब्ध-श्रेयांसः सत्त्वराशयः ॥११॥ अवचूरिः सिद्धौ - सिद्धिप्राप्तिविषये सत्वर आशयोऽभिप्रायो यस्य स तथा।
श्रीश्रेयांसजिनः । लब्धानि श्रेयांसि - कल्याणानि यैस्ते तथा । सत्त्वराशयः - प्राणिगणाः ॥११॥ मानवैर्दानवैर्देवैर्वा सुपूज्य ! शिवालयः । यैः श्रितस्त्वं भजन्त्येतान्, वासुपूज्य ! शिवालयः ॥१२॥