________________
१०
अभिनन्दनतीर्थेश !, भवताऽपाप ! नोदितः । उत्तार्योऽहं भवाम्भोधे, भवतापापनोदितः ॥४॥
अनुसन्धान- ७५ (२)
अवचूरि: हे अपाप!, भवता - त्वया, अहं भवाम्भोधेरुत्तार्यः - उत्तारणीयः । नोदितः न उदयं प्राप्तः । भवतापेन
-
अहं किम्भूतः ? संसारतापेन, अपनोदितो - विरुद्धं प्रेरितः ॥ ४ ॥
रतिस्तवाऽस्तु मे स्वामिन्!, सुमते ! सुमते ! हिते । आसन्नश्रेयसा प्राप्त-सुमतेऽसुमतेहिते ॥५॥
-
अवचूरिः हे श्रीसुमते ! - सुमतिनाथ !, तव सुमते - सुष्ठु मते, मे - मम, रतिरासक्तिरस्तु, इति क्रियादिसम्बन्धः । तव सुमते किंविशिष्टे ? हिते - सर्वेषु हितकारिणि, पुनस्तव मते किंविशिष्टे ? [आसन्न - श्रेयसा -] आसन्नकल्याणेन, असुमता प्राणिना, ईहिते - आश्रयितुं वाञ्छिते, हे प्राप्तसुमते ! प्राप्ता शोभना मतिः केवलज्ञानरूपा येन स प्राप्तसुमतिस्तत्सम्बोधनम् ॥५॥
-
शिवश्रीदानतो नम्रान्, पद्मप्रभ ! समोदय ! |
यः स्मर: ( रं? ) जितवान् भाऽस्तप्रद्मप्रभ ! समोदय ! ॥६॥ अवचूरि: हे श्रीपद्मप्रभ !, स त्वं [शिवश्रीदानतो ] मोक्षलक्ष्मीदानात् नम्रान् अर्थादङ्गिनो मोदय - हर्षयेति क्रियाकर्त्रादिसम्बन्धः । यस्त्वं, कन्दर्पं जितवान् । हे भास्तपद्मप्रभ ! भया रक्तया स्वदेहकान्त्याऽस्ता पद्मानां – पदैकदेशेऽपि पदसमुदायोपचारात् - पद्मरागमणीनां - पद्माभरक्तमणीनां प्रभा येन स भास्तपद्मप्रभस्तत्सम्बोधनम् । समोदय ! शिवस्थत्वेन कदाऽप्यविनश्वरत्वात् सम्पूर्ण उदयो यस्य, यद्वा, सह मा (म) या - ज्ञानादिलक्ष्म्या उदयेन वर्तते यः स तथा, तत्सम्बोधनम् ॥६॥
-
-
-
श्रीसुपार्श्वजिनाधीश !, भवतापापहारिणा ।
सनाथेयं मही जज्ञे, भवता पापहारिणा ॥७॥
अवचूरिः पापहारिणा भवता - त्वया । भवस्य - संसारस्य यस्तापस्तमपहरती • त्येवंशीलो यस्तथा, तेन ॥७॥
-