________________
सप्टेम्बर - २०१८
चतुर्विंशतिश्रीजिनराजस्तुतयः
(सावचूरयः)
श्रीनाभेयजिनः सोऽव्याद्, रागसागरमन्दरः ।
मुक्तं यं नाऽऽप भवभू-रागसाऽगरमन्दरः ॥१॥ अवचूरिः स श्रीनाभेयजिनोऽव्याद् - रक्षतात् । अर्थात् युष्मान् संसारतः ।
राग एव यः सागरः - समुद्रस्तत्र मन्दरो - मेरुः, तन्मथनादिकर्तृत्वेन तत्तुल्यत्वात् । यं - जिनं, [भवभूः-] संसारोद्भवो दरो - भयं, नाऽऽप - न प्राप्तवान् । यं किम्भूतम् ? - आगसा - पापेन मुक्तं; यदुक्तमनेकार्थे - 'आगः स्यादेनोवदघे मन्ता'विति । यश्च पापेन मुक्तस्तस्य संसारभयं न स्पृशत्येवेति भावः । पुनर्यं किंविशिष्टम् ? - अगरमम् - अगः - शैलस्तद्वन्निश्चला, यद्वा न गच्छतीति व्युत्पत्त्या अगा - स्थिरा रमा - अनन्तज्ञान-दर्शनादिसम्पद् यस्य स तथा, तम् ॥१॥ तं नमस्कुर्महे भक्ते-रजितं विनतामरम् ।
यः पाति जनतां दोषै-रजितं विनतामरम् ॥२॥ अवचूरिः विनता अमरा यस्मै स तथा, तम् अजितनाथम् । दोषैर्न जितम् ।
अरम् - अत्यर्थम् । विनताम् - अर्थात् संसारदुःखभारेण भुग्नां - कुटिलामुद्विग्नामित्यर्थः । यदनेकार्थः - विनतः प्रणते भुग्ने इति । एवंविधां जनताम् ॥२॥ भवतो भवतः पायात्, सदा शम्भवनायकः ।
न यं शिवश्रियः स्तौति, सदाशं भवनाय कः ॥३॥ अवचूरिः भवतो - युष्मान्, भवतः - संसारतः । शिवश्रियो - मोक्षश्रियो,
भवनाय - प्रादुर्भावाय, यद्वा भूधातोः प्राप्त्यर्थस्याऽपि भावात् भवनाय - प्राप्तये । सती - शोभना - जगद् मुच्यतामित्यादिरूपाऽऽशा - वाञ्छा यस्य तं तथा ॥३॥