________________
आ
२०१८
व्यक्तं नक्तंचरविभुरभीरक्षिणी रोषपुष्टो
राहुः ० ॥
८६. श्रीपार्श्वनाथस्थ महाप्रभावाद्वावक्ति मूको बधिरः शृणोति । वन्ध्या प्रसूते तनयं दिवापि तारागणं पश्यति नेत्रहीनः ॥
८७. सौख्यं वैषयिकं मुखेऽतिमधुरं प्रान्ते ततो नीरसं लक्ष्मीः स्थैर्यविवर्जिता जगदिदं कोषावृतं कण्टकैः । स्त्रीवर्गः सुजुगुप्सनीयकरणो बन्धुव्रजो बन्धनं, जम्बूवज्जलबिंदुवज्जलजवज्जम्बालवज्जालवत् ॥
८८. या मौनेन विरौति दुर्बलतमा बध्नाति मेरुं गले, श्रान्ता धावति पर्वते सविषमे ग्रीष्मे मरौ लीयते । शीतार्ताऽप्सु निमज्जते हुतवहं घर्मातुरा सेवते, नग्ना नेच्छति चाम्बरं वद सखे सा नाम का नायिका ॥
इति समस्याः श्रीकुलमण्डनसूरिकृताः समाप्ताः ।
*
१७