SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-७४ तस्मादिन्दुरहो पपात सरितोऽम्भोजेषु पूर्णं तदा चन्द्रश्चुम्बति चञ्चरीकचरणं चञ्चच्चपेटाहतः ॥ "सूचीमुखाग्रे मुशलं प्रविष्टम्'' ११. करोमिकायां प्रतिबिम्बितं यद् बलस्य वजे मुशलं प्रविष्टम् । विलोक्य लोकस्तदिदं जजल्प सूचीमुखाग्रे मुशलं प्रविष्टम् ॥ १२. अब्दस्य बिन्दून्मुशलप्रमाणान् निरीक्ष्य लोकाः पततो यवाग्रे । वदन्ति भोः पश्यत चित्रमेतत् सूची० ॥ १३. सङ्खण्डयत्या मुशलं युवत्या करस्थिते कङ्कणहीररत्ने । प्रविष्टमालोक्य वदन्ति लोकाः सूची० ॥ "शम्भुः कृष्णस्य( श्च ) युद्धं सपदि विदधतौ वीक्षितौ तुल्यकालम्" १४. तैस्तैर्दैत्यप्रकाण्डैरतुलबलयुतैः पीड्यमानं समन्तात् त्रैलोक्यं वीक्ष्य दक्षौ तरुणकरुणयालिङ्ग्यमानान्तरङ्गौ । उच्छेत्तुं तान् प्रचण्डावहमहमिकया तौ प्रवृत्तौ ततोऽभूत् शम्भुः कृष्णस्य(श्च) युद्धं सपदि विदधतौ वीक्षितौ तुल्यकालम् ।। १५. शम्भुव॒ते सुरेन्द्रप्रभृतिभिरमरैः सागरोऽयं ममन्थे, को हेतुस्तत्र लक्ष्मीप्रभृति समभवत् _ मराकाक्षभागे । संजज्ञे कालकूटं मम तु बुधगणा नोचितं स्यात्तदित्थं, शम्भुः० ॥ "भो भोः पश्यत कौतुकं जलमुचा मेघेन दग्धः पुमान्" १६. श्रुत्वा प्रावृषि गर्जमूर्जिततमां तन्वन् श्रवो दुःश्रवां, धाराभिर्मुशलोपमाभिरनिशं वर्षन् मुमोचानिशम् ।
SR No.520575
Book TitleAnusandhan 2018 04 SrNo 74
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2018
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy