________________
जान्युआरी - २०१८
सा किञ्चिद्विजघान तं तु विमतं दृष्ट्वा जनः प्रोक्तवान्,
भो भोः पश्यत कौतुकं जलमुचा मेघेन दग्धः पुमान् ॥ १७. पान्थः कश्चन वल्लभामभिनवप्रेमाणमाज्ञावशां,
स्मृत्वा प्रावृषि चन्द्रसुन्दरमुखीं दूनो वियोगाग्निना । श्यामत्वं गतवान् विलोक्य तमिमं लोका वदन्ती(?) भृशं, भो भोः० ॥
१८. दोर्दण्डाभ्यां शकपरिवृढस्यैष बिभ्यत् सुरेन्द्रः,
सर्वं सज्जं प्रहरणगणं कारयामास तूर्णम् । स-- चं (?) धनुरपि समीक्ष्यावदत् सिद्धसंघ(?)
चित्रं चित्रं हरिधनुरिदं रोपितज्यं मयैक्षि । १९. अणिमगरिममुख्याः शक्तयो यस्य वश्याः
कलयति च महान्तं देवताया वरं यः । प्रकटयति स शक्तिं दृश्यतां भोः सदस्याः न भवसि नलिनपात्रे दन्तिनः सञ्चरन्ति ।।
"वज्रेणापि निपातितात्वर( ? )मसौ चित्रं पुमान् जीवितः" २०. बाल्ये वीरजिनं निरीक्ष्य शिशुभिः क्रीडन्तमीÓवशात्
कश्चिद् भीषयितुं सु[रोऽ]मिलदहो वर्द्धिष्णुकायोऽभवत् । मुष्ट्या वामनित: पपात पदयोस्तं वीक्ष्य लोकोऽवदद् -
वज्रेणापि निपातितात्त्वर( ? )नसौ चित्रं पुमान् जीवितः ॥ २१. दम्पत्योः पुरुषायिते मृगदृशा गाढस्मरोष्मस्भृ(पृ?)शा,
पीनोत्तुंगपयोधरोद्धरयुगेनेशो भृशं ताडितः । मूर्ध्वान्ते कसमाश्वसन् पुनरमुं वीक्ष्यावदन्नालयो
वज्रेणापि० ॥ २२. श्रीरामो जनकात्मजाविरहितः संमील्य शाखामृगान्
बर्द्ध सागरमीयिवान् बुधतया भिन्नाभिधानैर्वदन् ।