________________
अनुसन्धान-७३
नवार्यतां भक्तिरमा मनोरमा, मनो रमाऽऽदौ कुरु मित्र ! पावनम् । त्रपावनं ह्येनमकम्प ! नायकं, पनाय कण्ठे विलुठन्महास्तवः ॥६॥ अवचूरिः हे मित्र ! नवा-नव्या, मनोरमा-मनोज्ञा, भक्तिरमा अर्यतां-प्राप्यताम्,
आदौ मनः अत्यर्थं पावनं-पवित्रं कुरु, कथम्भूतं मनः ? त्रपया अवनं-रक्षणं, हि-निश्चितं, हे अकम्प !-निश्चल !, एनं नायकं
पनाय - बुहि(?), कथम्भूतः त्वं ? कण्ठे विलुठन्महास्तवः ॥६॥ महास्तव स्युश्चिरकम्प्रसादतः, प्रसादतस्त्रस्तपराभवा नवाः ।
भवानवाप्तो यदनेन साम्प्रतं, न साम्प्रतं दुःखकथादि शङ्कर! ॥७॥ अवचूरिः हे नाथ ! तव प्रसादतः नवा महाः - उत्सवाः स्युः, कथम्भूतात्
प्रसादतः ? चिरं कम्प्रः कम्पनशीलः सादः खेदो यस्मात्, कथम्भूता महाः ? त्रस्ताः पराभवा येभ्यः, ते हे शङ्कर ! - सुखकर !, दुःखकथादि न साम्प्रतं - न युक्तं, यत्-यस्मात् अनेन-मया,
साम्प्रतं भवान् वर्तते ॥७॥ दिशं करश्रीकलितां दिवाकरो, दिवा करोत्येकत एव शावकः ।
वशावक ! त्वं कलयन् स केवलं, सकेवलं भासयसे जगत्त्रयम् ॥८॥ अवचूरिः शावको-बालो, दिवाकरो दिवसे एकत एव - एकस्मिन्नेव विभागे,
दिशं प्राचीलक्षणां, करश्री:-तेजोलक्ष्मीः, [तया] कलितां करोति; हे वशावक ! - वशानां वशवतिनाम्, अवक-रक्षक!, स - त्वं, केवलं - सम्पूर्ण जगत्त्रयं भासयसे, किंविशिष्टः कलयन् ? स्वम्
- आत्मानं, सकेवलं - केवलज्ञानसहितं कलयन् ॥८॥ जगत्र ! यं पश्यसि भूरिभावना-रिभावनाशकविलास ! वत्सलः । स वत्स-लक्ष्मीकुशलैः समं ततः, समन्ततः स्वं समयं नयत्यलम् ॥९॥ अवचूरिः हे जगत्त्र !-जगत्पालक !, हे भूरिभावनारिभावनाशैकविलास ! -
भूरिर्घना भावना येषां तेषां अरिभावनाशाय एको विलासो यस्य, तस्य सम्बोधने; हे नाथ ! वत्सलः सन् त्वं यं पुरुषं पश्यसि सपुमान्, वत्स-पुत्र-लक्ष्मीकुशलैः समं, समन्ततः ततः-विस्तीर्णः सन् स्वं समयं नयत्यलम् ॥९॥