________________
सप्टेम्बर - २०१७
१७
स्तुतेन कः सर्वविदा सुधी-रतः, सुधीर तत्त्वे रमते न सादरम् ।
न सादरकुः कुरुते कलङ्किन, कलङ्किनं तस्य मनोनिशाकरम् ॥२॥ अवचूरिः हे सुधीर ! कः सुधीः सर्वविदा-सर्वज्ञेन स्तुतेन सदा सादरं तत्त्वे
न रमते ? किंविशिष्टः सुधीः ? रतः-आस्थावान्, सादः-खेदः, स एव रङ्कः-मृगः, तस्य मनोनिशाकरं कलङ्किनं न कुरुते किंविशिष्टं ? - कलं-मनोज्ञं, किनं-प्रकाशवन्तं, कः प्रकाश उच्यते
॥२॥
निशा करण्डस्तमसां न वासरो, नवा सरोजे कमला मला यतः ।
मलाय तत् किं रमते परे मते, परे मतेरीश ! मनो निशायिते ॥३॥ अवचूरिः निशा तमसां करण्डः वर्तते, वासरो-दिवसो न, यतः वासरान्(त)
सरोजे नवाऽमला कमला भवति; हे ईश ! तस्मात् कारणात् मनः परमते-शासने, मलाय-पापाय, कि रमते ? किविशिष्टे ? मतः
बुद्धितः, परे-दूरतरे, रात्रिवदाचरिते-निशायिते ॥३॥ निशायिते मोहभटे स्मरेहते, स्मरे हते कश्चतुरो भवानलम् ।
भवानलं यच्छतु तं शिवालयं, शिवा लयं यत्र सुखावली गता ॥४॥ अवचूरिः हे नाथ ! स्मर-चिन्तय, मोहभटे निशायिते-नितरां शायिते-स्थापिते
सति, स्मरे-कामे हते सति, कश्चतुरो भवानलं-भववह्नि, ईहते ? अलम्-अत्यर्थं, भवान्-त्वं, तं शिवालयं-मोक्षस्थानं, यच्छतु, यत्र
मोक्षे, शिवा-निरुपद्रवा, सुखावली, लयं-निश्चलं गता ||४|| वलीगतायद्विलसन्महा भवान्, महाभवान्मामव वारणादिव । रणादिव प्रेष्यमिमं विना त्वया-विना त्वयादाप्त स केन वार्यताम् ?॥५॥ अवचूरिः हे नाथ ! भवान् वलीगतायद्विलसन्महा वर्तते, हे नाथ ! वारणात्
-गजात्, इव रणात्-संग्रामात् इव, महाभवान्, इमं प्रेष्यं-मां, अवरक्षतु, पुनःअयात्-अनुकूलदैवतात्, हे आप्त-प्राप्त !, त्वया विना स-महाभवः, केन वार्यताम् ? कथंभूतेन त्वया? आविना-रक्षण
॥५॥