________________
सप्टेम्बर - २०१७
दुःखानि प्रलयं गतान्यविकलान्येवं युवाभ्यां द्रुतं जातं जन्म फलेग्रहीह युवयोर्वासं श्रिते धी-श्रियौ ॥३॥ यूयं जातकठोरकर्मनिकरा युष्मान् हनिष्यत्यसौ युष्माभिविदितं नवा जिनपती रुष्टोऽस्ति युष्मभ्यकम् । युष्मत् सर्वगुणावलिविंगलिता युष्माकमल्पा मतिर्युष्मासु प्रथिता प्रवृत्तिरतुला सर्वापि य(ज)ज्ञे मुधा ॥४॥ अहं स्तुवे मां जिन ! तारयस्व, मया श्रितस्त्वं सुखमाशु मह्यम् । प्रदेहि, मद् दोषगणो विलीनो, ममाऽधिपस्त्वं मयि सद्दयावान् ॥५॥ आवामत्र नि[र]र्थको तुदति च प्रीतिश्च ता पूर्वजा(?)त्वावाभ्यां नितरां प्रकुप्यति फलं प्राप्तं सुकष्टावहम् । तुष्टिः पुष्टिमतीह नो बत बलं मोघीभवत्यावयोः संचिन्त्येति विभो ! गतौ गतमदौ त्वत् क्रोध-मानाविमौ ॥६॥ भक्त्या संविनुमो वयं प्रभुमथाऽस्माँस्तारयाशु प्रभो !ऽस्माभिस्त्वत्क्रमसेविता विरचिताऽस्मभ्यं स्वकां देहि गाम् । अस्मत् संहर कल्मषं जिनवराऽस्माकं त्वमेव प्रभुभक्तेषु प्रकुरुष्व देव ! करुणामस्मासु विश्वोत्तम ! ॥७॥ इत्थं तारितमां जिनेश ! विनुवे त्वामाश्रितत्वां मुदा पाया मां भवतस्त्वमीश ! विनुतत्वां संता(सेविता?)हं जवात् । भूयात्ते भविकावलिर्वरतरा सद्भक्तमह्यं प्रभो ! भक्ताराधिततुभ्यमश्नुवि नयात् सौम्यं शिवं देहि मे ॥८॥
इति युष्मदस्मच्छब्दसप्तविभक्तिवचनत्रयरूपगर्भितं
श्रीऋषभनाथस्तोत्रम् ॥