________________
अनुसन्धान-७२
ते दिनः, नैकाक्षरार्गिद(दि)ति(?) सूत्रेण अत्र इन्-प्रत्ययस्य एकाक्षरशब्दादघटमानत्वेऽपि 'विशेषे बहुल'मिति सूत्रप्रामाण्याद् लक्षणस्य बहुविविधप्रयोगगरिष्टत्वाद् इन् समेति न दोषः । इति अन्यत्राऽपि ज्ञेयम् । न दिनः अदिनः परिग्रहारम्भरहिता यतय इत्यर्थः । तेषां नाथ! । हे विश्वारिभिः रणभरैः अपराजित! विश्वे- समस्ता बाह्याभ्यन्तररूपाः काम-क्रोधादयोऽरयो
वैरिणस्तै रणभरैः- सङ्ग्रामभरैरनभिभूत! । अथवा विश्वारिभिः साकं रणभरैरपराजित! । हे नेतः!- स्वामिन्! । हे श्रियां- बाह्याभ्यन्तराणां पर-पदाश्रय!प्रकृष्टपदस्थान! । हे शमितान्तिनिवारकाख्य!, शमिनो- यतयस्तेषां तान्तिनिवारका आख्या यस्य ते, तस्य सम्बोधनं हे शमि० । एवंविधगुणोत्तम! हे श्रीवीतराग!, भवान्- त्वं मे- मह्यं शं- सुखाय स्तात्- भव इति वृत्तेक्ष-(त्ताक्ष)रार्थः ॥१॥
अथ वर्तमानचतुर्विंशतिजिनवर्णनमया नमस्काराः क्रमेण विविधपदयोजनाभिलिख्यन्ते । यथा - देवेन्द्रसेवित! विपाप! युगादिनाथ!,
विश्वारिभीरणभरैरपराजित! स्तात् । नेतः! श्रियां परपदाश्रय! शं भवान् मे,
श्रीवीतराग! शमितान्तिनिवारकाख्य! ॥ व्याख्या - हे देवेन्द्रसेवित!, इह देवशब्दस्याऽनेकेऽर्थाः सन्ति । यतः दिवूच क्रीडा १ जयेच्छा ३ पणि ४ द्युति ५ स्तुति ६ गतिषु ७ । दीव्यन्तिक्रीडन्ति अप्सरोभिः सममिति । दीव्यन्ति- जयन्ति दानवादीनपरानपि प्रतिपक्षान् मानवोनयिवा (मानवान् यौवन-)रूप-लावण्या-ऽमृताहारा-ऽजरत्वा-ऽऽरोग्याऽत(नि)मिषता-कान्तिप्रभृतिगुणैरिति देवाः । दीव्यन्ति- इच्छन्ति सुरसम्बन्धिवृत्त्यादि सुखंद्रा(सुरेन्द्रा)देशं केचित् सम्यग्दृशो जिनदर्शनं बोधिबीजं मानुष्यभवं समवसरणरचनादि जैनवैयावृत्त्यं वेति देवाः । दीव्यन्ति- व्यवहरन्ति देवसम्बन्धितदुचितव्यापारैरिति देवाः । दीव्यन्ति- उत्पत्तिमारभ्य आ जीवधारणावधि द्युतिभाज एव भवन्ति देवाः । तथा दीव्यन्ति- स्तुवन्ति जिनादीन् महर्षीन् स्वस्वामिनो वा देवाः । पुनर्गच्छन्ति अर्हदादीन् नन्तुं तत्कल्याणिकमहं शासने महतां साधूनां सांनिध्यं वा कर्तुं शक्रादीनां सेवनां वा स्वस्वामित्वात् शरणं वा । अथ गच्छन्तिप्राप्नुवन्ति आमरीसम्पदं सुखश्रेणिमिति देवाः । तथा देवशब्दस्य अपरधातुभि