________________
जून
र्निष्पत्तेरपि सर्वत्राऽत्राऽर्थानामपौनरुक्त्यं ज्ञेयम् । हे विपाप !, विगतं पापं यस्मात् स वि०, तस्याऽऽमन्त्रणं हे वि० । हे विश्वारिभीरणभरै: ०, अरि (रीणां भीर्भयमरिभीश्च रणभराश्च अरिभी०, विश्वे च तेऽरिभी० विश्वारिभीरणभरास्तैरपराजित! । हे श्रियां नेतः । प्रापक!, भक्तानामिति गम्यम् । हे परपदाश्रय!, परे प्रकृष्टे पदे- निर्वाणस्थाने आश्रयो यस्य स०, तस्य सं० । हे शमि०, प्राग्वत् । हे श्रीवीतराग!, वीतो रागो यतो भवतस्तस्याऽऽमन्त्रणम् । य ईदृग्गुण: हे श्रीयुगादिनाथ! भवान् मे शं स्तात् । इति श्रीऋषभः ॥२॥ देवेन्द्रसेवित ! विपाप ! युगादिनाथ !,
विश्वारिभीरणभरैर ! पराजित ! स्तात् । नेतः! श्रियां परपदाश्रय! शं भवान् मे, श्रीवीतराग! शमितान्तिनिवारकाख्य ! ॥
२०१७
३
व्याख्या आद्यविशेषणद्वयं पूर्ववत् । हे युगादिनाथ!, विद्यते दोदानं परकृतशंदायको वा येषामथवा दा- दानं परसूत्रितं दाता वा विद्यते येषां ते दिनः । दकार-दाकारयोरपि एतदर्थवर्तिता नामकोशोक्ताऽस्ति । क्वचित् क्वचित् भिन्नार्थतया ग्राह्यमपुनरुक्ततायै । न दिनः अदिनः, परैरदत्तधन्याद्यर्थाः कृतसारा: अत एव दौःस्थ्यभाजः, एते एव दीना जना इति भावार्थ: । युग (गे) कृतादौ अदिनः युगादिनः, एतदजितायुषि बाहुल्यात (ल्याद्) बहुयुगातिक्रमः अभूत्, तेन युगचतुष्कस्याऽपि ग्रहणमादिशब्देन । युगादीनां नाथः युगा०, तस्य सं० हे यु० । हे विश्वारिभीरणभरैर!, अश्वे- कल्याये (कल्ये?) अरयः असामर्थ्येऽपि सन्मुखभषणपरत्वात्, यतः शास्त्रे शुनामीदृक्स्वभावदृढता(त्वा)त् (?), यत: "एजइ मंडलेण भसियं" इत्यादिप्रामाण्यात् । श्वकल्या(?) अरयः, भीर्भयं सप्तविधं, रणभरो- युद्धभरस्तेषामा- सामस्त्येन इ[:] - खेदः, पर(ए?):- काम:, श्वारयश्च भीश्च रणभराश्च एवरश्च ( ? ) श्वारिभिरणभरैराः, वि- विगताः श्वारिभीरणभरैरा यस्मात् स वि०, तस्य सं० हे विश्वारिभीरणभरैर! | अत्र अव्यया-: - ऽनव्ययशब्दयोर्मिश्रभजने समासेऽनुचितं मन्यन्ते केचित् । परं बहुलमिति प्रयोगवशाद् भवति एव, तथापि महत्कवीन्द्रप्रणीतग्रन्थेषु दृष्टत्वादानीतमस्ति, [न] दूष्यम् । हे पर!- ईदृग्गुणश्रेष्ठ! । हे अजित ! - हे अजितनाथ! जिन ! । भवान् मे शं स्तात् ||३||